________________
पद्मपुराणम् ।
तृतीयं पर्व। एवं प्रोक्ते गणेशेन पुनः श्रेणिकभूपतिः। भोगभूमौ समुत्पत्तेः कारणं परिपृष्टवान् ॥ ६४ ॥ कथितं च गणेशेन तत्र ये प्रगुणा जनाः । साधुदानसमायुक्ता भवत्येते सुमानुषाः ॥६५॥ ये पुनः कुत्सिते दानं ददते भोगतृष्णया । तेपि हस्त्यादितां गत्वा भुंजते दानजं फलं ॥६६॥ नितांतं मृदुनि क्षेत्रे दूरं कृष्टे हलाननैः । क्षिप्तं वीजं यथानंतगुणं शस्यं प्रयच्छति ॥ ६७ ॥ यथा चेक्षुषु निक्षिप्तं माधुर्य वारि गच्छति । पीतं च धेनुभिस्तोयं क्षीरत्वेन निवर्तते ॥ ६८॥ एवं साधौ तपोगारे व्रतालंकृतविग्रहे । सर्वग्रंथविनिर्मुक्त दत्तं दानं महाफलं ॥ ६९ ॥ खले गतं यथा क्षेत्रे वीजमल्पफलं भवेत् । निंबेषु च तथा क्षिप्तं कटुत्वं वारि गच्छति ॥ ७० ॥ यथा च पन्नगैः पीतं क्षीरं संजायते विषं । कुपात्रेषु तथा दत्तं दानं कुफलदं भवेत् ॥ ७१ ॥ एवं दानस्य सदृशो धरेंद्र फलसंभवः । यद्यदा धीयते वस्तु दर्पणे तस्य दर्शनं ॥ ७२ ॥ यथा शुक्लं च कृष्णं च पक्षद्वयमनंतरं । उत्सर्पिण्यवसर्पिण्योरेवं क्रमसमुद्भवः ॥ ७३ ॥ अथ कालांतरोत्पत्या हानि यातेष्वनुक्रमात् । कल्पपादपखंडेषु श्रृणु कौलकरी स्थिति ॥ ७४ ॥ प्रतिश्रुतिरिति ज्ञेयः आधः कुलकरो महान् । श्रुत्वा तस्य वचः सर्वाः प्रजाः सौस्थित्यमागताः॥ जन्मत्रयमतीतं यो जानाति स्म निजं विभुः । शुभचेष्टासमुद्युक्तो व्यवस्थानां प्रदेशकः ॥७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org