________________
पद्मपुराणम् ।
तृतीयं पर्व। युग्ममुत्पद्यते तत्र पल्यानां त्रयमायुषा । प्रेमबंधनबद्धं च म्रियते युगलं समं ॥५१॥ कांचनेन चिता भूमीरत्नश्च मणिभिस्तथा । कालानुभावतश्चित्रैः सर्वकामफलप्रदा ॥५२॥ चतुरंगुलमानैश्च चित्रर्गधेन चारुभिः । विमलातिमृदुस्प स्तृणैश्छन्ना विराजते ॥५३॥ । सर्वर्तुफलपुष्पैश्च तरवो रेजुरुज्ज्वलाः । स्वतंत्राश्च सुखेनास्थुः गोमहिण्याविकादयः॥५४॥ कल्पवृक्षसमुत्पन्न भक्षयंतो यथेप्सितं । अन्नं सिंहादयः सौम्या हिंसां तत्र न चक्रिरे ॥ ५५ ॥ पद्मादिजलजच्छन्नाः सौवर्णमणिरोधसः । संपूर्णा रेजिरे वाप्यो मधुक्षीरघृतादिभिः ॥५६॥ गिरयोऽत्यंतमुत्तंगाः पंचवर्णसमुज्ज्वलाः । नानारत्नाकरच्छन्नाः सर्वप्राणिसुखावहाः ॥५७ ।। नद्यो निर्जतुका रम्याः क्षीरसर्पिमधूदकाः । अत्यंतसुरसास्वादा रत्नोद्योतितरोधसः ॥ ५८॥ नातिशीतं नचात्युष्णं तीव्रमारुतवर्जितं । सर्वप्रतिभयैर्मुक्तं नित्योद्भूतसमुत्सवं ॥ ५९॥ ज्योतिःक्रमप्रभाजालछिन्मेंदुरविमंडलं । सर्वेद्रियसुखास्वादप्रदकल्पमहातरुः ॥ ६ ॥ प्रासादास्तत्र वृक्षेषु विपुलोद्यानभूमयः । शयनासनमेष्वेव स्वादुपानाशनानि च ॥ ६१ ॥ वस्त्रानुलेपनादीनि तूर्यशब्दा मनोहराः । आमोदिनस्तथागन्धः सर्व चान्यत्तरूद्भवं ॥ ६२ ॥ दश भेदेषु तेष्वेवं कल्पवृक्षेषु चारुषु । रेमिरे तत्र युग्मानि सुरलोक इवानिशं ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org