SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३ तृयिं पर्व । महापादप ज्ञे विद्याधरपुरीशतं । अधिकं दशभिस्तत्र विजयार्द्धश्वनैकशः ॥ ३८ ॥ त्रिशच्चतसृभिर्युक्ता राजधान्यः प्रकीर्तिताः । चतुर्दश महानद्यो जंबूवृक्षे जिनालयः ॥ ३९ ॥ षड्भोगक्षितयः प्रोक्ता अष्टौ जिनगृहाणि च । अष्टषष्टिर्गुहामानं भवनानां च तत्स्मृतं ॥ ४० ॥ सिंहासनानि चत्वारि त्रिंशच्च गदितानि तु । विजयार्द्धनगौ द्वौ च राजतौ परिकीर्तितौ ॥४१॥ वक्षारगिरियुक्तेषु समस्तेषु नगेषु च । भवनानि जिनेंद्राणां राजते रत्नरश्मिभिः ॥ ४२ ॥ जंबूभरतसंज्ञायां क्षोण्यां दक्षिणयाशया । सुमहान् राक्षसो द्वीपो जिनबिंबसमन्वितः ॥ ४३ ॥ महाविदेहवर्षस्य जगत्यां पश्चिमाशया । विशालः किन्नरद्वीपो जिनबिंबोज्ज्वलः शुभः ॥ ४४ ॥ तथैरावतवर्षस्य क्षित्यामुत्तरया दिशा । गंधर्वो नामतो द्वीपः सचैत्यालय भूषितः ॥ ४५ ॥ मेरोः पूर्वविदेहस्य जगत्यां पूर्वयाशया । रराज धरणद्वीपो जिनायतनसंकुलः ॥ ४६ ॥ भरतैरावतक्षेत्रे वृद्धिहानिसमन्विते । शेषास्तु भूमयः प्रोक्तास्तुल्यकालव्यवस्थिताः ॥ ४७ ॥ जंबूदृक्षस्य भवने सुरोsनावृतशब्दितः । शतैः किल्विषिकाख्यानामास्तें बहुभिरावृतः ॥ ४८ ॥ अस्मिश्च भरतक्षेत्रं पुरोत्तरकुरूपमं । कल्पपादपसंकीर्ण सुखमायां विराजते ॥ ४९ ॥ तरुणादित्यसंकाशा गव्यूतित्रयमुच्छ्रिताः । सर्वलक्षणसंपूर्णाः प्रजा यत्र विरेजिरे ॥ ५० ॥ Jain Education International ३ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy