SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ तृतीयं पर्व । लताभवनमध्यस्थान्नर्तयन्नुरगद्विषः । गंभीरांभोदनिर्घोषं धीरयोदाहर गिरा || २५ ॥ वायुष्मन्महीपाल ! देवानां प्रिययत्नतः । मम वाक्यं जिनेंद्रोक्तं तत्वशं शनतत्परं ।। २६ ।। रावणो राक्षसो नै नचापि मनुजाशनः । अलीकमेव तत्सर्वं यद्वदंति कुवादिनः ॥ २७ ॥ विना पीठबंधन विधातुं सद्म शक्यते । कथा प्रस्तावहीनं च वचनं छिन्नमूलकं ॥ २८ ॥ यतः श्रृणु ततस्तावत्क्षेत्रकालोपवर्णनं । महतां पुरुषाणां च चरितं पापनाशनं ॥ २९ ॥ अनंतालोकनभसो मध्ये लोकस्त्रिधा स्थितः । तालोलूखलसंकाशो वलिभिस्त्रिभिरावृतः ॥ ३० ॥ तिर्यग्लोकस्य मध्येस्मिन्संख्यातिक्रममागतैः । वेष्टितो वलयाकारै द्वीपैरंभोधिभिस्तथा ॥ ३१ ॥ कुलालचक्रसंस्थानो जंबूद्वीपोयमुत्तमः । लवणांभोधिमध्यस्थः सर्वतो लक्षयोजनः ॥ ३२ ॥ तस्य मध्ये महामेरुर्मूले वज्रमयोऽक्षयः । ततो जांबूनदमयो मणिरत्नमयस्ततः ॥ ३३ ॥ संध्यानुरक्त मेघौघसदृशोत्तुंग श्रृंगकः । वालाग्रमात्रविवरास्पृष्टसौधर्मभूमिकः ॥ ३४ ॥ योजनानां सहस्राणि नवतिर्नव चोच्छ्रितः । सहस्रमवगाढश्च स्थितो बज्रमयः क्षितौ ।। ३५ ।। विपुलः शिखरे चैकं धरण्यां दश संगतं । राजते तिर्यगाकाशं मानदंड इवोच्छ्रितः ॥ ३६ ॥ द्वौ च तत्र कुरू द्वीपे क्षेत्रैः सप्तभिरन्विते । षट् क्षेत्राणां विभक्तारो राजंते कुलपर्वताः ।। ३७ ।। पद्मपुराणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy