________________
३१
पद्मपुराणम् ।
तुतीचे पर्व। कात्या तारापतेस्तुल्यो दीप्त्या भास्करसन्निभः । अशोकपल्लवच्छायपाणिपादोंबुजेक्षणः ॥१२॥ प्रशांतेन शरीरेण भुवनं शमयन्निव । पतिर्गणस्य साधूनां गौतमाख्योवतिष्ठते ॥ १३ ॥ दूरादेवावतीर्णश्च करेणोश्चरणायनः । प्रमोदोत्फुल्लनयनो डुढौके विनयानतः ॥ १४ ॥ ततस्तं त्रिपरीत्यासौ प्रणम्य च कृतांजलिः । दत्ताशीर्गणनाथेन धरायां समुपाविशत् ॥ १५॥ अथ दंतप्रभाजालधवलीकृतभूतलः । पर्यपृच्छदिदं राजा कुशलप्रश्नपूर्वकं ॥ १६ ॥ भगवन्पद्मचरितं श्रोतुमिच्छामि तत्त्वतः । उत्पादितान्यथैवास्मिन् प्रसिद्धिः कुमतानुगैः ॥१७॥ राक्षसोपि हि लंकेशो विद्यावान् मानवोपि वा । तिर्यग्भिः परिभूतोसौ कथं क्षुद्रकवानरैः॥१८॥ अतिचात्यंतदुर्गधं कथं मानुषविग्रहं । कथं वा रामदेवेन वालिश्छिद्रेण नाशितः॥ १९ ॥ गत्वा वा देवनिलयं भक्त्वापवनमुत्तमं । चंदीग्रहं कथं नीतो रावणेनामराधिपः ॥२०॥ सर्वशास्त्रार्थकुशलो रोगवर्जितविग्रहः । शेते च स कथं मासान् षडेतस्य वरोनुजः ॥२१॥ कथं चात्यंतगुरुभिः पर्वतैरलमुन्नतैः । सेतुः शाखामृगैर्बद्धो य सुरैरपि दुर्घटः ॥ २२ ॥ प्रसीद भगवन्नेतत्सर्वं कथयितुं मम । उत्तरय बहून् भव्यान् संशयोदारकर्दमात् ॥ २३ ॥ एवमुक्तो गणेशस्य निर्गतैर्दशनांशुभिः । क्षालयन्निव निःशेषं कुसुमैर्मलिनं जगत् ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org