________________
पद्मपुराणम् ।
तृतीयं पर्व । अथ तृतीयं पर्व। आस्थानमंडपेऽथासौ कृताशेषतनुस्थितिः । सर्वालंकारसम्पनो निविष्टो भद्रविष्टरे ॥१॥ सामंतैश्च प्रतीहारदत्तद्वारैरुपागतः । केयूरकोटिसंघट्टपाटितप्रवरांशुकैः ॥२॥ पतझमरसंगीतमौलिमालावतंसकैः । कटकांशुचयैश्छन्नकराग्रस्पष्टभूतलैः ॥३॥ ललत्मालंवतरलप्रभापटलसारितैः । प्रणतः सद्गुणग्रामसमावर्जितमानसैः ॥४॥ ततस्तैरनुयातोसावारूढवरवाहनैः । प्रष्ठाहितकुथाशोभा भद्रामारुह्य वासितां ॥५॥ गृहीतमंडलाग्रेण बद्धसायकधेनुना । प्रकोष्टे दधता वामे कटकं हेमनिर्मिते ॥६॥ दूरमुड्डीयमानेन वायुमार्ग मुहुर्मुहुः । मृगाणामिव यूथेन नभस्वदनुगामिना ॥७॥ याहि याहि पुरोमार्गादर्पसर्प व्रज ब्रज । चल किं स्तंभितोसीति पादातेन कृतध्वनिः ॥ ८॥ निश्चक्राम पुरो राजा वंदिनः पठतोग्रतः । आकर्णयन्समाधानन्यस्तचित्तः सुभाषितं ॥९॥ प्राप्तश्च तमसौ देशं यस्मिन्मुनिरावृतः । सर्वश्रुतजलस्नाननिर्मलीकृतचेतनः ॥१०॥ शुद्धध्यानशमावेष्टस्तत्त्वाख्यानपरायणः । उपविष्टःसुखस्पर्श लब्ध्युत्पन्ने मसूरके ॥ ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org