SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २९ पद्मपुराणम् । द्वितीयं पर्व । व्रतप्राप्तने रामेण सौवर्णो रुरुराहतः । सुग्रीवस्याग्रजः स्त्रयर्थं जनकेन समस्तथा ॥ २४७॥ अश्रद्धेयमिदं सर्वं वियुक्तमुपपत्तिभिः । भगवंतं गणाधीशं सोहं प्रष्टास्मि गौतमं ॥ २४८ ॥ एवं चिंतयतस्तस्य महाराजस्य धीमतः । वंदिभिस्तूर्यनादांते जयशब्दो महान् कृतः ॥२४९॥ कुलपुत्रेण चासन्नस्वामिना बोधमीयुषा । निसर्गणैव पठितः श्लोकोयं जठरायुषा ॥ २५० ॥ पृष्टव्या गुरवो नित्यमर्थ ज्ञातमपि स्वयं । स तैनिश्चयमानीतो ददाति परमं सुखं ॥ २५१ ॥ एतदानंदयंश्चारु निमित्तं मगधाधिपः । शयनीयात्समुत्तस्थौ स्वस्त्रीभिः कृतमंगलः ॥ २५२ ॥ अथकुसुमपटांतः सुप्तनिःक्रांत,ग । प्रहितमधुरनादाभ्यंतरस्यैकदेशात् ॥ जडपवनविधूताकंपिता पांडुदीपात् । निरगमदवनीशः श्रीमतो वासगेहात् ॥ २५३ ॥ रदनशिखरदष्टस्पष्टविवोष्टपुष्ट । प्रतिहतजयनाद श्रीसमानद्युतीनां ॥ करमुकलनिबद्धव्यक्तपद्माकराणां । श्रवणपथमनैषीचैष वारागनानां ॥ २५४ ॥ अतिशयशुभचिंतासंगनिष्कंपचेता । नरपतिरुपनीताशेषतत्कालभावः ॥ धवलकमलभासो वासगेहादपेतो । रविरिवशरदभ्रो दारवृंदादभासीत् ॥ २५५ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते श्रेणिकचिंताभिधानं नाम द्वितीयं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy