SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८ पद्मपुराणम् । द्वितीयं पर्व । क्षुतृष्णाव्याकुलश्चासौ विबुद्धः सन्महोदरः । भक्षयत्यग्रतो दृष्ट्वा हस्त्यादीनपि दुर्द्धरः ॥ २३४ ॥ तिर्यग्भिर्मानुषैर्देवै कृत्वा तृप्तिं ततः पुनः । स्वपित्थेव विमुक्तान्यनिःशेषपुरुषस्थितिः ॥ २३५ ॥ अहो कुकविभिर्मूखैविद्याधरकुमारकः । अभ्याख्यानमिदं नीतो दुःकृतग्रंथकच्छकैः ॥ २३६ ॥ एवंविधं किल ग्रंथ रामायणमुदाहृतं । शृण्वतां सकलं पापं क्षयमायाति तत्क्षणात् ॥ २३७ ॥ तापश्च जनचित्तस्य सोयमग्निसमागमः । सीतापनोदकामस्य तुषारानिलसंगमः ॥ २३८ ॥ हैवी कामस्य तदिदं जलमंथनं । सिकतापीडनं तैलमवाप्नुमभिवांछतः ॥ २३९ ॥ महापुरुषचारित्रकूटदोषविभाविषु । पापैरधर्मशास्त्रेषु धर्मशास्त्रमतिः कृता ॥ २४० ॥ 1 अमराणां किलाधीश रावणेन पराजितः । आकर्णाकृष्टनिर्मुक्तैर्वाणैर्मर्मविदारिभिः ॥ २४९ ॥ देवानामधिपः कासौ वराकः कैष मानुषः । तस्य चिंतितमात्रेण यायाद्यो भस्मराशितां ॥ २४२ ॥ ऐरावतो गजो यस्य यस्य वज्रं महायुधं । समेरुवारिधिं क्षोणीं योऽनायासात्समुद्धरेत् ॥ २४३ ॥ सोयं मानुषमात्रेण विद्याभाजाल्पशक्तिना । आनीयते कथं भंगं प्रभुः स्वर्गनिवासिनां ॥ २४४ ॥ चंदीग्रहगृहीतोसौ प्रभुणा रक्षसां किल । लंकायां निवसन्काराग्रहे निगडसंयतः ॥ २४५ ॥ मृगैः सिंहबधः सोऽयं शिलानां पेषणं तिलैः । वधो गंडूपदेनाहे गजेंद्रशासनं शुना ॥ २४६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy