________________
द्वितीयं पर्व
ज्वलन्नातिसमीपस्थस्फटिकच्छन्नदीपके । अप्रमत्तशिरोरक्षिगणकल्पितरक्षणे || २२१ ॥ प्रसूनप्रकरावाप्तमंडनक्ष्मातलस्थिते । उपयातसुविन्यस्ततनुविस्तीर्णपट्टके ॥ २२२ ॥ विधाय भूभुजः कृत्यं कृतजैनेंद्रसंकथः । शयनीये सुखं शिश्ये कुशाग्रनगराधिपः ॥ २२३ ॥ जिनेंद्रमेव चापश्यत्स्वप्नेपि च पुनः पुनः । पर्यपृच्छच्च संदेहं पपाठ च जिनोदितं ॥ २२४ ॥ ततो मदकलेद्र निद्रां विद्रावकारिणा । गेहकक्षातिगंभीरगुहागोचरगामिना ।। २२५ ॥ महाजलदसंघातधीरघोषानुहारिणा । प्रभाततूर्यनादेन विबुद्धो मगधाधिपः || २२६ ॥ अचितयच्च वीरेण भाषितं धर्महेतुकं । चक्रवर्त्यादिवीराणां संभवं प्रणिधानतः ॥ २२७ ॥ अथास्य चरिते पद्मसंबधिनि गतं मनः । संबंध इव चेत्यासीद्रक्षस्सु प्लवगेषु च ॥ २२८ ॥ कथं जिनेंद्रधर्मेण जाता संतो नरोत्तमाः । महाकुलीना विद्वांसो विद्योद्योतितमानसाः ||२२९|| श्रूयते लौकिके ग्रंथे राक्षसा रावणादयः । वसाशोणितमांसादिपानभक्षणकारिणः ॥ २३० ॥ रावणस्य किल भ्राता कुंभकर्णो महाबलः । घोरनिद्रापरीतः षण्मासान् शेते निरंतरं ।। २३१ ॥ मत्तैरपि गजैस्तस्य क्रियते मर्दनं यदि । तप्ततैलकटाहैश्च पूर्वेते श्रवणौ यदि ॥ २३२ ॥ भेरीशंखनिनादेपि सुमहानपि जन्यते । तथापि किल नायाति कालेऽपूर्ण विबुद्धयां ॥ २३३ ॥
पद्मपुराणम् ।
Jain Education International
સવ
For Private & Personal Use Only
www.jainelibrary.org