________________
पद्मपुराणम्।
४८२
द्वाविंशतितम पर्व। सुकोशलमुनेरुड़ मूर्द्धप्रभृतिनिर्दया । दारयंती नखैर्देहं पतिता सा महीतले ॥ ९० ॥ तयासौ दारितो देहे विमुंचनरसंहतीः । बभूव विगलद्धातुवारिनिर्झरशैलवत् ॥ ९१॥ ततस्तस्य पुरः स्थित्वा कृत्वा नानाविचेष्टितं । पापा खादितुमारब्धा मुनिमारभ्य पादतः ९२ पश्य श्रेणिक संसारे संमोहस्य विचेष्टितं । यत्राभीष्टस्य पुत्रस्य माता गात्राणि खादति ॥१३॥ किमतोन्यत्परं कष्टं यज्जन्मांतरमोहिताः । बांधवा एव गच्छंति वैरितां पापकारिणः ॥ ९४ ॥ ततो मेरुस्थिरस्यास्यशुक्लध्यानावगाहिनः । उत्पन्नं केवलज्ञानं देहमुक्तेरनंतरं ॥ ९५ ॥ आगत्य च सहेंद्रेण प्रमोदेन सुरासुराः । चक्रुर्देहार्चनं तस्य दिव्यपुष्पादिसंपदा ॥ ९६ ॥ व्याघ्री कीर्तिधरेणापि सुवाक्यैर्वोधिता सती । सन्यासेन शुभं कालं कृत्वा स्वर्गमुपागता ९७ ततः कीर्तिधरस्यापि केवलज्ञानमुद्गतं । यत्रासकैव देवानां जाता महिमकारिणां ॥९८॥ महिमानं परं कृत्वा केवलस्य सुरासुराः । पादौ केवलिनो नत्वा ययुः स्थान यथायथं ॥९९॥ सुकोशलस्य महात्म्यमधीते यः पुमानिति । उपसर्गविनिमुक्तः सुखं जीवत्यसौ चिरं ॥१०॥ देवी विचित्रमालाथ संपूर्ण समये सुखं । प्रसूता तनयं चारुलक्षणांकितविग्रहं ॥ १०१॥ हिरण्यरुचिरा माता तस्मिन् गर्भस्थिते भवेत् । यतो हिरण्यगर्भाख्यामतोसौ सुंदरोऽगमत् १०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org