________________
पद्मपुराणम् ।
४८३
द्वाविंशतितमं पर्व |
नाभेयसमयस्तेन गुणैः पुनरिवाहृतः । हरेः स तनयां लेभे नानामृतवतीं शुभां ॥ १०३ ॥ सुहृद्वधिवसंपन्नः सर्वशास्त्रार्थपारगः । अक्षीणद्रविणः श्रीमान् हेमपर्वतसन्निभः ॥ १०४ ॥ पराननुभवन् भोगानन्यदासौ महामनाः । मध्ये भृंगाभकेशानां पलितांकुरमैक्षत ॥ १०५ ॥ दर्पणस्य स्थितं मध्ये दृष्ट्वा तं पलितांकुरं । मृत्योर्दूतसमाहूतमात्मानं शोकमाप्तवान् ॥ १०६ ॥ अर्चितयच्च हा कष्टं बलादंगानि मे तथा । शक्तिकांतिविनाशिन्या व्याप्यंते जरसाधुना ॥ १०७॥ चंदनडुमसंकाशकायोयमधुना मम । जराज्वलननिर्दग्धोंगारकल्पो भविष्यति ॥ १०८ ॥ तर्कयंती रुजा छिद्रं या स्थिता समयं चिरं । पिशाचीवाधुना सा मे शरीरं वाधयिष्यति ।। १०९ ।। चिरं वद्धक्रमो योस्थाद् व्याघ्रवद्ग्रहणोत्सुकः । मृत्युः स मेधुना देहं प्रसभं भक्षयिष्यति ॥ ११० ॥ कर्मभूमिमिमां प्राप्य धन्यास्ते युगपुंगवाः । व्रतपोतं समारुह्य तरुर्ये भवसागरं ।। १११ ॥ इति संचित्य विन्यस्य राज्येऽमृतवतीसुतं । नघुषाख्यं प्रवत्राज पार्श्वे विमलयोगिनः ॥ ११२ ॥ न घोषितं यतस्तस्मिन् गर्भस्थेप्यशुभं भुवि । नघुषोऽसौ ततः ख्यातो गुणनामितविष्टपे ११३ स जायां सिंहिकाभिख्यां स्थापयित्वा पुरे ययौ । उत्तरां ककुभं जेतुं सामंतान् प्रत्यवस्थितान् ॥ दूरीभूतं नरं ज्ञात्वा दाक्षिणात्या नराधिपाः । पुरी गृहीतमाजग्मुर्विनीता भूरिसाधनाः ॥११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org