SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकोनविंशति पर्व। ततो विदित्वा जनकेन तस्या । हृतं मनो मारुतनंदनेन ॥ परः समारूढसुताशरीरः । संप्रेषितो वायुसुताय शीघ्रं ॥ ११८ ॥ दूतो युवा श्रीनगरं समेत्य । जातः प्रविष्टो विहितप्रणामः ॥ हनूमते दर्शयतिम विंबं । तारात्मजायाः पटमध्ययातं ॥ ११९ ॥ सत्यं शराः पंच मनोभवस्य । स्युर्यद्यमुष्मिन् जगति प्रसिद्धाः ॥ कन्यालियुक्तः कथमेककालं । ततः शतैवायुसुतं जघान ।। १२० ॥ अजातएवास्मि न यावदेनां । प्राप्नोमि कन्यामिति जातचित्तः ॥ समीरसुनुर्विभवेन युक्तः । क्षणेन सुग्रीवपुरं जगाम ॥ १२१ ॥ श्रुत्वा तमासन्नतरं प्रदृष्टः । सुग्रीवराजोभ्युदियाय सद्यः॥ प्रयुज्यमानोऽघंशतेहेनूमान् । पुरं प्रविष्टः श्वसुरेण साधं ॥ १२२ ।। तस्मिस्तदा राजगृहं प्रयाति । प्रासादमालामणिजालकस्थाः ॥ तदर्शनव्याकुलनेत्रपमाः । मुक्तान्यचेष्टा ललना बभूवुः ॥ १२३ ।। गवाक्षजालेन निरीक्षमाणा । सुग्रीवजा वायुसुतस्य रूपं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy