________________
पद्मपुराणम्।
४३७
, एकोनविंशति पर्व।
कामप्यवस्थां मनसा प्रपन्ना । स्ववेदनीयां सुकुमारदेहा ॥ १२४ ।। अयं स नायं पुरुषोऽपरोयं । कोप्येष सोऽसौ सखि सोयमेव ॥
इत्यंगनाभिः परितर्यमाणो । विवेश सुग्रीवपुरं हनूमान् ॥ १२५ ॥ तयोर्विवाहः परया विभूत्या । विनिर्मितः संगतसर्वबंधुः ॥ ___ तौ दंपती योग्यसमागमेन । प्राप्तौ प्रमोदं परमं सुरूपौ ॥ १२६ ॥ जगाम बध्व्या सहितो हनूमान् । स्थानं निजं निर्वृतचित्तवृत्तिः ॥ ___ कृत्वा सशोको श्वसुरौ स्ववर्गौ । सुतावियोगात्स्ववियोजनाच ॥ १२७ ॥ तस्मिस्तथा श्रीमति वर्तमाने । सुते समस्तक्षितियातकीर्ती ॥ __महासुखास्वादसमुद्रमध्ये । ममज्ज वायुः क्षितिपोजना च ॥ १२८ ॥ श्रीशैलतुल्यैरथ खेचरेशैः । सन्मान्यमानो बहुमानधारी ॥
अभूद्दशास्यः क्षतसर्वशत्रुः । त्रिखंडनाथो हरिकंठतुल्यः ॥ १२९ ॥ लंकानगर्या स विशालकांतिः । सुखेन रेमे पृथुभोगजेन ॥
समस्तलोकस्य धृतिं प्रयच्छन् । यथा सुरेंद्रः सुरलोकपुयां ।। १३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org