________________
पद्मपुराणम् ।
४०५
सत्त्वशं पर्य। तस्मात्साधुमिमं देवं समाश्रित्य कृतोचितं । मुनिपर्यकपूतायां गुहायामघसंक्षयात ॥ २८९ ॥ मुनिसुव्रतनाथस्य विन्यस्य प्रतियातनां । अर्चयंत्यो सुखप्राप्त्यै स्वमोदैः कुसुमैरलं ॥ २९० ॥ सुखप्रसूतिमेतस्य गर्भस्याध्याय चेतसि । विस्मृत्य वैरहं दुःखं समयं किंचिदास्वहे ॥ २९१ ॥ त्वत्संगम समासाद्य प्रमोदं परमागतः । नरैः शीकरैरेष हसतीव महीधरः ॥ २९२ ॥ फलभारविनम्राग्रा लसत्कोमलपल्लवाः । पुष्पहासकृतो वृक्षा इमे तोषमुपागताः ॥ २९३ ॥ मयूरसारिकाकीरकोकिलादिकलस्वनः । कृतजल्पा इवैतस्य वनाभोगा महीभृतः ।। २९४ ॥ नानाधातुकृतच्छायास्तरुसंघातवाससः । अस्मिन्गुहा विराजते कुसुमामोदवासिता ॥ २९५ ॥ जिनपूजनयोग्यानि पंकजानि सरस्सु हि । विद्यते तव वक्त्रस्य धारयति समानतां ॥ २९६ ॥ विधत्स्व धृतिमत्रेशे माभूचिंतावशात्मिका । कल्याणमत्र ते सर्व जनयिष्यंति देवताः ॥२९७॥ अधुना दिनवक्त्रे ते विज्ञायेवानघं वपुः । कोलाहकृतो जाताः प्रमोदेन पतत्त्रिणः ॥ २९८ ॥ पलाशाग्रस्थितानेते वृक्षा मंदानिलेरितान् । मुंचंत्यानंदवाष्पाभानवश्यायकणान् जडान् ।।२९९॥ संप्रेष्य प्रथमं संध्यां दूतीमिव सरागिकां । उदंतं ते परिज्ञातुमेष भानुः समुद्गतः ॥ ३०॥ एवमुक्तांजनावोचत्सखि मे सर्वबांधवाः । त्वमेव त्वयि सत्यां च ममेदं विपिनं पुरं ॥३०१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org