________________
पद्मपुराणम् ।
४०४
सप्तदशं पर्व। मध्यमर्षभगांधारषड्जपंचमवतान् । निषादसप्तमांश्चके स स्वरान्क्रममत्यजन् ॥ २७७ ॥ भेजे वृत्तीयथास्थानं द्रुतमध्यविलंबिताः । एकविंशतिसंख्याश्च मूर्छना तर्तितेक्षणा ॥ २७८ ॥ हाहा हूहूसमानं स गानं चक्रेऽथवाधिकं । प्रायो गंधर्वदेवानां प्रसिद्धिमिदमागतं ।। २७९ ॥ स्वनान्येकोनपंचाशत्स जगौ परिनिष्ठितं । जिनेंद्रगुणसंबद्धैर्वचनैर्ललिताक्षरैः ॥ २८० ॥ देवा देवैर्भक्तिप्रवैः पुष्पैर(र्नानागंधैः । अर्चामुच्चैनीतं वंद्यं देवं भक्त्या त्वामहंतं ॥ २८१ ॥ त्रिभुवनकुशलमतिशयपूतं नमामि भक्त्या परया।।
मुनिसुव्रतचरणयुगं सुरपतिमुकुटप्रत्तनखमणिकिरणं ॥ २८२ ॥ ततो वसंतमाला तद्यमत्यंतशोभनं । प्रशंस साश्रुतंपूर्व विस्मयव्याप्तमानसा ॥ २८३ ॥ अहो गीतमहो गीतं केनाप्येतन्मनोहरं । आद्रीकृतमिवानेन हृदयं मे सुधामुचा ॥ २८४ ॥ स्वामिनी च जगादैवं दैवि कोप्यनुकंपकः । देवोयं येन नौ रक्षा कृता केसरिनोदनात्।।२८५।। मन्येस्मवृत्तयेनेन गीतमेतच्छ्तप्रियं । कृत्वा कलकलध्वानमंतरे सकलांगकं ॥ २८६ ॥ देवि शीलवती कस्य नानुकंप्यासि शोभने । महारण्येऽपि भव्यानां भवंति सुहृदो जनाः २८७ उपसर्गस्य विध्वंसादेतस्मात्ते सुनिश्चितः । भविता प्रियसंपर्कः किंवा वक्त्यन्यथा मुनिः।।२८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org