________________
पद्मपुराणम् ।
४०३
सप्तदर्श पर्व । ध्रियसे देविदेवीति चालयंती पुनः पुनः । जगाद स्वामिनीवक्षोविन्यस्तकरपल्लवा ॥ २६४ ॥ ततोऽसौ तत्करस्पर्शादागतस्पष्टचेतना । चिरात्सखीयमस्मीति जगादास्पष्टया गिरा ॥ २६५ ॥ ततस्ते संगमात्प्राप्य-कियंतीमपि निवृतिं । पुनर्जन्मेव मेनाते लब्धसंभाषणोद्यते ॥ २६६ ॥ भयशेषेण चाभीलां मुग्धे तां जज्ञतुर्निशां । समासमां कृताशेषबंधुनष्ठुर्यसंकथे ॥ २६७ ॥ ततो विध्वस्य नागारिं नागारिरिव पन्नगं । प्रमोदवानसौ सद्यः प्रीतवान् सुमहागुणं ॥२६८॥ गंधर्वकांतयावाचि गंधर्वो लब्धवर्णया । तदूरौ बाहुमादाय तरत्तारकनेत्रया ॥ २६९॥ स्वनकं यच्छ मे नाथ जिज्ञासाम्यधुनोचितं । उपदेशो हि गातव्यं कादंबर्यामनुत्तमं ॥ २७० ॥ शेष साध्वसमेते च वनिते परिमुंचतः । श्रुत्वा नौ मधुरं गीतं दैवीयं हृदयं गमं ॥ २७१ ॥ अर्धरात्रे ततस्तस्मिन्नन्यशब्दविवर्जिते । संस्कृत्यावीवदद्वीणां गंधर्वः श्रोत्रहारिणीं ॥ २७२ ॥ कासिके वादयंती च प्रियवक्त्राहितेक्षणा । रत्नचूला जगौ मंदं मुनिक्षोभनकारणं ॥ २७३ ॥ तयोर्धनं कृतं वाद्यं सुषिरं च कृतं ततं । परिवर्गेण गंभीरकरतालक्रमोचितं ॥ २७४ ॥ पाणिपैरेकतानेन मंद्रध्वनिसमन्वितं । तथा वैणविकैढं प्रवीण<विलासिनः ॥ २७५ ॥ प्रवीणामः प्रवालाभां वीणां चारूपमानिकां । कोणेनाताडयदक्षो गंधर्वः काकलीवुधः ॥२७६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org