________________
पद्मपुराणम् ।
४०२
सप्त पर्व |
हा भर्तृदारिके पूर्व दौर्भाग्यमसि संगता । तस्मिन्नपि गते कृच्छ्राद्वर्जितासर्वबंधुभिः ॥ २५१ ॥ संप्राप्तासि वनं भीमं कथमप्यागता गुहां । मुनिनाश्वासितासन्नप्रियावाप्तिनिवेदनात् ।। २५२ ।। सा त्वं केसरिणो वक्त्रमधुना देवि यास्यसि । दंष्ट्राकरालमुद्त्तद्विरदक्षयकारणं ॥ २५३ ॥ हा देवि ते गतः कालो दुर्जनस्य विधेर्वशात् । उपर्युपरिदुःखेन मर्मदुर्गतिकारणात् ॥ २५४ ॥ परित्रायस्व हा नाथ ! पवनंजय ! गेहिनीं । हा महेंद्र ! कथं नेमां तनयां परिरक्षसि ।। २५५ । हा किं केतुमति क्रूरे मुद्वास्या त्वयि का कृता । हा करुणे मनोवेगे तनयां किं न रक्षसि ॥ २५६ ॥ मरणं राजपुत्रीयं प्राप्नोति विजने वने । कुरुत त्राणमेतस्याः कृपया वनदेवताः ॥ २५७ ॥ मुनेरपि तथा तस्य लोकतत्वावबोधिनः । शुभार्थसूचनं वाक्यं संभवेदन्यथा किमु ? ।। २५८ ।। आदमिति कुर्वाणा दोलारूढेव विह्वला । चक्रे वसंतमाला तु स्वामिन्यंतं गतागतं ।। २५९ ॥ अथ भंगगतः सिंहः शरभेण तलाहतः । अंतर्दधे कृतार्थश्च शरभो निलये निजे ॥ २६० ॥ ततः स्वप्नोपमं दृष्ट्वा त्रिरतं युद्धमेतयोः । द्रुतं वसंतमालागात् स्वेदिगात्रा पुनर्गुहां ॥ २६१ ॥ अतः पल्लवकांताभ्यां हस्ताभ्यां कृतमार्गणा । क्कासि कासीति भीशेषात्कृतगद्गदनिस्वना २६२ ज्ञात्वा वसंतमाला तां स्पर्शेनात्यंतनिश्चलां । तां प्रति प्राणनाशकासमाकुलितमानसा ॥ २६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org