________________
पद्मपुराणम् ।
४०१
सप्तदश पर्व ।
मंडलस्यांतरे कृत्वा शावकान् भयवेषितान् । तस्थुः पुरुखगा संघायूथपन्यस्तलोचनाः ||२३८|| केसरिध्वनिवित्रस्ता कंपमानशरीरिका । वपुराहारयोस्त्यागं चक्रे सालंबमंजना ॥ २३९ ॥ उत्पत्य त्वरिता व्योम्नि सख्यस्यास्तद्ग्रहाक्षमा । बभ्राम पक्षिणीवालमंडलेनाकुलात्मिका २४० भूयः समीपमाकाशमेति प्रेमगुणाहृता । पुनश्च तीव्रवित्रासात्प्रयाति नभसः शिरः ॥ २४९ ॥ अथ ते सभये दृष्ट्वा विशीर्णहृदये शुभे । गंधर्वस्तद्गुहावासी कारुण्या श्लेषमीयिवान् ॥ २४२ ॥ तमूचे मणीचूलाख्यं रत्नचूला निजांगना । कारुण्येनोरुणा साध्वी चोदिता द्रुतभाषिणी २४३ पश्य पश्य प्रिय ! त्रस्तां तां मृगेंद्रादिह स्त्रियं । एतद्भीतिसमादिष्टां द्वितीयां च नमोंऽगणे ॥ कुरुनाथ प्रसादं मे रक्षैतामतिविह्वलां । अभिजातां वरां नारीं कुतोऽपि विषमाश्रितां ।। २४५ ।। एवमुक्तोथ गंधर्वो विकृत्य शरभाकृतिं । त्रैलोक्यभीषणद्रव्यसंभारणैव निर्मितं ॥ २४६ ॥ हस्तत्रितयमात्रस्थामंजनामसमागतां । सिंहरिपुरकरोद्देहं छन्नसानुकदंबकः ॥ २४७ ॥ तयोस्तत्राभवद्भीभः संघट्टो रवसंकुलः । विद्युदुद्योतितप्रावृङ्घनसंघं हसन्निव ॥ २४८ ॥ एवं विधेऽपि संप्राप्ते काले वीरभयावहे । अंजनासुंदरी चक्रे हृदये जिनपुंगवान् ॥ २४९ ॥ इत्थं वसंतमाला च मंडलेन कृतभ्रमा । विललाप महादुःखी कुररीव नभस्तले ॥ २५० ॥
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org