________________
पद्मपुराणम् ।
सप्तदशं पर्व ।
विमुंचन् विषमच्छेदान्नादान् स प्रतिशब्दकान् । वेगिनः सकलं व्योम कुर्वाणमित्र खंडशः २२५ प्रलयज्वलनज्वालाविलासाञ्चलयन्मुहुः । महास्यगह्वरे जिह्वां प्रह्वां भूरिजनक्षये ॥ २२६ ॥ tara कुशाकारां दंष्ट्रा तीक्ष्णाग्रसंकटां । कुटिलां धारयन् रौद्रां मृत्योरपि भयंकरां ॥ २२७॥ उद्यत्प्रलयतीत्रांशुमंडलप्रतिमे वहन् । छुरयंती दिशां चक्रं नेत्रे वित्रासकारिणी ॥। २२८ ॥ मस्तकन्यस्तपुच्छाग्रो नखकोटिक्षतक्षतिः । अष्टापदतटोरस्को जघनं घनमुद्वहन् ॥ २२९ ॥ मृत्युर्दैत्यकृतोऽनु स्यात् प्रेतसोऽनु कलिक्षयः । अंतकस्यांतको नु स्याद्भास्करो नु तनूनपात् २३० इतरां जनिताशंकं जंतुभिर्वीक्षितोऽखिलैः । अविभूव तदेशे केसरी विकटः क्षणात् ।। २३१ ।। तस्य प्रतिनिनादेन पूरितोदारकंदराः । भीता इवातिगंभीरं रुरुधुर्धरणीधराः ॥ २३२ ॥ मुरेणेव घोरेण शब्देनास्य तरस्विना । श्रोत्रयोस्ताडिताच कुरिति चेष्टाः शरीरिणः ॥ २३३ ॥ लोचने मुकुलीकुर्वन्नभिदुर्गे महीभृति । शार्दूलो दर्पनिर्मुक्तः सन् चुकोप सर्वेपथुः || २३४ ॥ शरत्पुष्पसमाकारो हृष्टरोमांचसंभ्रमः । बभूस्तरलगुंजाक्षो विवेश विवरं गिरेः ।। २३५ ॥ सारंगा मुखविभ्रंशिदूर्वा कोमलपल्लवाः । यथापूर्वक्षयास्तस्थुर्भयस्तंभितविग्रहाः || २३६ ॥ संभ्रांतवनेत्राणामुत्कर्णानां विचेतसां । दानौघनिश्चलांगानां मतंगानां विचिच्छिदुः ॥ २३७ ॥
Jain Education International
४०१
For Private & Personal Use Only
www.jainelibrary.org