________________
पद्मपुराणम् ।
३९९
सप्तदशं पर्व । सोऽपि दत्वाशिष ताभ्यां समुत्पत्य नभस्तलं । संयमस्योचित देश जगामामलमानसः ॥२१२॥ पर्यकासनयोगेन यस्मात्तस्यां स सन्मुनिः । तस्थौ जगाम पर्यंकगुहाख्यां सा ततो भुवि २१३ इत्थं निजभवान्, श्रुत्वा भवद्विस्मितमानसा । निंदंती दुष्कृतं कर्म पूर्व यदधमं कृतं ॥२१४॥ महेंद्रदुहिता तस्यां सूतिकालव्यपेक्षया । तस्थौ मगधराजेंद्र ! पूतायां मुनिसंगमात् ॥ २१५ ॥ वसंतमालया तस्या विद्यावलसमृद्धया । पानाशनविधिश्चके मनसा विषयीकृतः ॥ २१६ ॥ अथ प्रियविमुक्तां तां कारुण्येनेव भूयसा । असमर्थो रविदृष्टुमस्तमैच्छनिषेवितुं ॥ २१७॥ तदुःखादिव मंदत्वं भास्करस्य करा ययुः । चित्रकार्पितादित्यकरोत्करकृतोपमात् ॥ २१८ ॥ शोकादिव रवेविंबं सहसा पातमागतं । गिरिवृक्षाग्रसंसक्तं करजालं समाहरन् ॥ २१९॥ अथागंतुकसिंहस्य दृष्टयेव क्रोधताम्रया । संध्यया विहितं सर्व क्षणेन नभसस्तलं ॥ २२० ॥ ततो भाव्युपर्गेण प्रेरितेव त्वरावती । उदियाय तमोलेखा वेतालीव रसातलात् ॥ २२१ ।। कृतकोलाहलाः पूर्व दृष्ट्वा तामिव भीतितः । निश्शब्दा गहने तस्थुर्वृक्षाग्रेषु पतत्रिणः ॥२२२॥ प्रावर्तत शिवारावा महानिर्घातभीषणाः । वादिता उपसर्गेण प्रकटा पटहा इव ॥ २२३ ॥ अथ धृतेमकीलालशोणकेसरसंचयः। मृत्युपत्रांगुलिच्छायां भृकुटि कुटिलां दधत् ॥ २२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org