________________
पद्मपुराणम् ।
सप्तदशं पर्व । आपन्मध्योत्सवावस्थाः सेवते यस्य यो जनः । स तस्या वांधवो वंधुरपि शत्रुरसौख्यदः ३०२ इत्युक्त्वा देवदेवस्य विन्यस्य प्रतियातनां । पूजयंत्यौ स्थिते तत्र ते विद्याकृतवर्तने ॥ ३०३ ॥ गंधर्वोप्यनयोश्चके सर्वतः परिरक्षणं । आतोद्यं प्रत्यहं कुर्वन् कारुण्याजिनभक्तितः ॥ ३०४ ॥ अथान्यदांजनावोचत्कुक्षि चलितः सखि । आकुलेव च जातास्मि किमिदं नु भविष्यति ३०५ ततो वसंतमालोचे समयः शोभने तव । अवश्यं प्रसवस्यैष प्राप्तो भव सुखस्थिता ॥ ३०६ ॥ ततो विरचिते तल्पे तया कोमलपल्लवैः । असूत सा सुतं चार्वी प्राचीवाशा विरोचनं ॥३०७ ॥ जातेन सा गुहा तेन तेजसा गात्रजन्मना । हिरण्मयीव संजाता निधूतध्वांतसंचया ॥ ३०८ ॥ ततस्तमंकमारोप्य प्रमोदस्यापि गोचरं । स्मृतोभयकुला दैन्यप्राप्ता प्ररुदिताभवत् ॥ ३०९॥ विललाप महावत्स कथं ते जननोत्सवः । क्रियतां किं मयेतस्मिञ्जनस्य गहने वने ॥ ३१० ॥ स्थानेऽजनिष्यथाश्चेत्त्वं पितुर्मातामहस्य वा । अभविष्यन्महानंदो जननोन्मत्तकारकः ॥३११॥ मुखचंद्रमिमं दृष्ट्वा तव चारुविलोचनं । न भवेद्विस्मयं कस्य भुवने शुभचेतसः ॥ ३१२ ॥ करोमि मंदभाग्या किं सर्ववस्तुविवर्जिता । विधिनाहं दशामेतां प्रापिता दुःखदायिनी ॥३१३॥ जंतुना सर्ववस्तुभ्यो वांछयते दीर्घजीविता । यस्मात्त्वं जीवितात्तस्मान्मम वत्स परां स्थिति ३१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org