________________
पद्मपुराणम् ।
३९७
सप्तदशं पर्व ।
निस्सर्गोयं तथा येन जिनानामर्चनात्सुखं । जायते प्राणिनां दुःखं परमं च तिरस्कृतेः॥१८६॥ यन्नाम दृश्यते लोके दुःखं तत्पापसंभवं । सुखं च चरितात्पूर्वसुकृतादिति विद्यतां ॥ १८७॥ सा त्वं पुण्यरिमां वृद्धिं भक्तोरुं पुरुषाधिपं । पुत्रं चाद्भुतकर्माणं प्राप्ता श्लाघ्या सुधारिणं १८८ तथा कुरु यथा भूयो लप्स्यसे सुखमात्मनः । मद्वाक्यादवटे भव्ये मापप्तः सति भास्करे ।।१८९।। अभविष्यं तवावासो नरके घोरवेदने । अहं नाबोधयिष्यं चेत्प्रमादोयमहो महान् ॥ १९० ॥ इत्युक्ता सा परित्रस्ता दुःखतो नरकोद्भवात् । प्रत्ययादिति शुद्धात्मा सम्यग्दर्शनमुत्तमं ॥१९१॥ अगृहीगृहिधर्म च शक्तेश्च सदृशं तपः । जन्मान्यदिव मेने च सांप्रतं धर्मसंगमात् ॥ १९२ ॥ प्रतिमा च प्रविश्येनां पूर्वदेशे व्यतिष्ठपत् । आनर्च च विचित्राभिः सुमनोभिः सुगंधिभिः १९३ कृतार्थ मन्यमाना स्वं तस्या धर्मनियोजनात् । जगाम स्वोचितं स्थानं संयमश्रीः प्रमोदिनी१९४ कनकोदर्यपि श्रेयः समुपायं गृहे रताः । श्रुत्वा कालं दिवं गत्वा भुक्त्वा भोगं महागुणं ॥१९५।। च्युत्वा महेंद्रराजस्य महेंद्रपुटभेदने । मनोवेगासमाख्यायामंजनेति सुताभवत् ॥ १९६ ॥ सेयं पुण्यावशेषेण कृतेन जननांतरे । जातेहाट्यकुले शुद्ध प्राप्ता च वरमुत्तमं ॥ १९७ ॥ प्रतिमां च जिनेंद्रस्य त्रिकालाय॑स्य यद्वहिः । अकार्षीत्समयं कंचित्तेनातो दुःखमागमत् १९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org