________________
सप्तदशं पर्व।
पद्मपुराणम् ।
३९६ अवोचत ततः सैवं शीलभूषणधारिणी । तदिमां मितया वाचा माधुर्यमुपमोज्झितं ॥ १७३ ।। भद्रे श्रृणु मनः कृत्वा परमं परमाते । नरेंद्रकृतसन्माने भोगायतनविग्रहे ॥ १७४ ॥ भवे चतुर्गतौ भ्राम्यन् , जीवो दुःखैश्वितः सदा । सुमानुषत्वमायाति शमे कटुककर्मणः॥१७५।। मनुष्यजातिमापन्ना सा त्वं पुण्येन शोभने । माभूज्जुगुप्सिताचारा कर्तुं योग्यासि सक्रियां१७६ लब्ध्वा मनुष्यतां कर्म यो नादत्ते जनः शुभं । रत्नं करगतं तस्य भ्रंशमायाति मोहिनः १७७ कायवाक्चेतसां वृत्तिः शुभाहितविधायिनी । सैवेतरेतराध्यानकारिणी प्राणधारिणां ॥ १७८ ॥ स्वस्य ये हितमुद्दिश्य प्रवर्तते सुकर्मणि । उत्तमास्ते जना लोके निदिंताचारभूयसि ॥ १७९ ॥ कृतार्था अपि ये संतो भवदुःखमहार्णवात् । तारयंति जनान् भव्यानुपदेशविधानतः ॥ १८० ॥ उत्तमोत्तमतां तेषां विकृतां धर्मचक्रिणां । अर्हतो ये तिरस्कार प्रतिबिंबस्य कुर्वते ॥ १८१ ।। जंतूनां मोहिनां तेषां यदनेकभवानुगं । दुःखं संजायते कस्तद्वक्तुं शक्नोति कान्यतः ॥१८२।। यद्यप्येषां प्रपन्नेषु प्रासादो नोपजायते । नचापकारनिष्ठेषु द्वेषो माध्यस्थमीयुषां ॥ १८३ ॥ स्वस्मात्तथापि जंतूनां परिणामाच्छुभाशुभात् । तदुद्देशन संजातात्सुखदुःखसमुद्भवः ॥ १८४॥ यथानेः सेवनाच्छीतदुःखं जंतुरपोहते । भुत्तृष्णां परिपीडां च भक्तशीतांबुसेवनात् ॥ १८५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org