________________
पद्मपुराणम् ।
सप्तदशं पर्व । तपः कापुरुषाचित्यं तप्त्वा तन्वादरोज्झितं । रत्नत्रितयतो जातं दधानः परमार्थतां ॥ १६० ॥ नानालब्धिसमुत्पन्नः शक्तोऽप्यहितवारणे । परीषहरिपून् घोरानधिसह्य सुमानसः ॥ १६१ ॥ आयुर्विराममासाद्य ध्यानमास्थाय निर्मलं । ज्योतिषां पटलं भित्त्वा लांतवेऽभूत्सुरो महान् १६२ इच्छानुरूपमासाद्य तत्र भोगं परस्थितिः । छद्मस्थजनधीवाचां स्थितं संचक्ष्यगोचरं ॥ १६३ ॥ च्युत्वा पुण्यावशेषेण प्रेरितः परमोदयः । कुक्षिमस्या विवेशायं जीवः सौख्यस्य भाजनं १६४ एवं तावदयं गर्भः स्वामिन्यास्ते तनुं श्रितः । हेतुं विरहदुःखस्य श्रुणु कल्याणचेष्टिते ॥ १६५ ॥ भवेऽस्याः कनकोदयां लक्ष्मीनाम सपत्न्यभूत् । सम्यग्दर्शनपूतात्मा साधुपूजनतत्परा ॥१६६॥ प्रतिमा देवदेवानां प्रतीके सद्मनस्तया । स्थापयित्वार्चिता भक्त्या स्तुतिमंगलवक्त्रया ॥१६७ ॥ महादेव्यभिमानेन सपत्न्यै क्रुद्धया तया । चक्रे बाह्यावकाशोसौ जिनेंद्रप्रतियातना ॥ १६८ ॥ अत्रांतरेऽविशद्नेहमस्या भिक्षार्थमार्यिका । संयमश्रीरिति ख्याता तपसा विष्टपेऽखिले ॥ १६९ ।। ततः परिभवं दृष्ट्वा साप्यहत्प्रतियातनं । ययावतिपरं दुःखं पारणापेतमानसा ॥ १७० ॥ इमां च मोहिनीं दृष्ट्वा परं कारुण्यमागता । साधुवर्गो हि सर्वेभ्यः प्राणिभ्यः सुखमिच्छति १७१ अपृष्टोऽपि जनः साधुर्गुरुभक्तिप्रचोदितः । अज्ञप्राणिहितार्थ च धर्मवाक्ये प्रवर्तते ॥ १७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org