________________
३९४
पद्मपुराणम् ।
सप्त पर्व ।
ततः साधुं स वंदित्वा श्रुत्वा धर्मं यथाविधि । सम्यग्दर्शनसंपन्नो बभूव नियमस्थितः || १४७ || दत्वा सप्तगुणोपेतामन्यदा पारणामसौ । साधुभ्यः पंचतां प्राप्य कल्पवासमशिश्रयत् ॥ १४८ ॥ नियमाद्दानतश्चात्र भोगमन्वभवत्परं । देवीशतेक्षणच्छायानीलाब्ज स्रग्विभूषितः ॥ १४९ ॥ च्युतस्तस्मादिह द्वीपे मृगांकनगरेऽभवत् । प्रियंगुलक्ष्मीसंभूतो हरिचंद्रनृपाज्मजः ॥ १५० ॥ सिंहचंद्र इतिख्यातः कलागुणविशारदः । स्थितः प्रत्येकमेकोऽपि चेतः सुप्राणधारिणां ॥ १५१ ॥ तत्रापि मुक्तसद्भोग ः साधुभ्योऽवाप्य सन्मतिं । कालधर्मेण संयुक्तो जगाम त्रिदशालयं ॥ १५२ ॥ तत्रोदारं सुखं प्राप संकल्पकृतकल्पनं । देवीवदनराजीवमहाखंड दिवाकरः ॥ १५३ ॥ च्युत्वाचैव ततो वास्थ विजयार्धमहीधरे । नगरेरुण संज्ञा के सुकंठस्य नरप्रभोः ॥ १५४ ॥ जायायां कनकोदर्या सिंहवाहनशब्दितः । उदपादि गुणाकृष्टसमस्तजनमानसः ।। १५५ । तत्र देव इवोदारसंभोगमनुभूतवान् । अप्सरोविभ्रमस्तेनः कांतालिंगनलालितः ।। १५६ ।। तीर्थे विमलनाथस्य सोऽन्यदा जातसन्मतिः । निक्षिप्य तनये लक्ष्मी घनवाहननामनि १५७ पुरुसंवेगसंपन्नो विदितासारसंसृतिः । लक्ष्मीतिलकसंज्ञस्य मुनेरानर्च्छ शिष्यतां ।। १५८ ।। अनुपालय समीचीनं व्रतं जिनवरोदितं । अनित्यत्वादिभिः कृत्वा चेतनां भावनामयीं ॥ १५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org