________________
३९३
पद्मपुराणम् ।
सप्तदशं पर्व। ततोऽकथितविज्ञाततवृत्तांतं महामुनि । कुतूहलसमाक्रांतमानसा सुमहादरा ॥ १३४ ॥ । नत्वा वसंतमालोचे स्वामिनीप्रियतत्परा । पादयोनॆत्रकांत्यास्य कुर्वतीवाभिषेचनं ॥ १३५ ॥ विज्ञापयामि नाथ त्वां कृपया वक्तुमर्हसि । परोपकारभूयस्यो ननु युष्मादृशां क्रियाः ॥१३६॥ हेतुना केन भर्तास्य चिरं कालं व्यरज्यत । अरज्यत पुनर्दुःखं प्राप्ता चैषा महावने ॥ १३७ ॥ कोवास्य मंदभाग्योऽयं जीवोस्याः कुक्षिमाश्रयत् । सुखोचितेयमानीता येन जीवितसंशयं॥१३८।। ततः सोऽमितगन्याख्यो ज्ञानत्रयविशारदः । यथावृत्तं जगादास्या वृत्तिरेषा हि धीमतां १३९ वत्से श्रृणु यतः प्राप्ता भव्येयं दुःखमीदृशं । पूर्वमाचरितात्पापात्संप्राप्तपरिपाकतः ॥ १४० ॥ इह जंबूमति द्वीपे वास्ये भरतनामनि । नगरे मंदराभिख्ये प्रियनंदीति सद्गृही ॥ १४१ ॥ जायाजायास्य तत्राभूद्दमयंताभिधः सुतः । महीसौभाग्यसंपन्नः कल्याणगुणभूषणः ॥ १४२ ।। अथान्यदा मधौ क्रीडा परमा तत्पुरेऽभवत् । नंदनप्रतिमोद्याने पौरलोकसमाकुले ॥ १४३ ॥ चिक्रीडे दमयंतोऽपि तत्र मित्रैः समं सुखं । पटवासवलक्षांगकुंडलादिविभूषितः ॥ १४४ ॥ अथ तेन स्थितेनाराक्क्रीड़ता गगनांबराः । दृष्टास्तपोधना ध्यानस्वाध्यायादिक्रियोदिता॥१४५।। निस्सृत्य मंडलान्मित्राद्रश्मिवत्सोऽतिभासुरः । जगाम मुनिसंघातं मेरुशृंगौघसन्निभं ॥ १४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org