________________
पद्मपुराणम् ।
३९२
सदशं पर्व। शैलकूटगताशंकं वीक्ष्य ताभ्यां चिरादसौ । निरवायि महासत्वः सौम्यभासुरविग्रहः ॥ १२१ ॥ ततः पूर्वकृतानेकश्रमणासेवने मुदा । समीपं जग्मतुस्तस्य क्षणात्ते विस्मृतासुखे ॥ १२२ ॥ त्रिःपरीत्य च भावेन नेमतुर्विहितांजली । मुनि परमिव प्राप्ते वांधवं विकचेक्षणे ॥ १२३ ॥ काले यदृच्छया तत्र तेन योगः समाप्यते । भवत्येव हि भव्यानां क्रिया प्रस्तावसंगता ॥१२४ ॥ ते ततो वदतामेवमविभक्तकरद्वये । अनगारांघ्रिविन्यस्तनिरसुस्थिरलोचने ।। १२५ ॥ भगवन्नाय ते देहे कुशलं कुशलाशय । मूलमेष हि सर्वेषां साधनानां सुचेष्टित ॥ १२६ ॥ उपयुपरि संबद्धं तपः कश्चिद्गुणांबुधे । विहारोऽपि दमोद्वाहव्युपसर्गो महाक्षमः ॥ १२७ ॥ आचार इति पृच्छावो भवंतमिदमीदृशं । अन्यथा कस्य नो योग्या कुशलस्य भवद्विधाः १२८ भवंति क्षेमताभाजो भवद्विधसमाश्रिताः । स्वस्मिस्तु कैव भावानां कथा साध्वितरात्मनां १२९ इत्युक्त्वा ते व्यरंसिष्टां विनयानतविग्रहे । निश्शेषभयनिमुक्ते तद्दष्टे च बभूवतुः ॥ १३०॥ अथ प्रशांतया वाचा श्रमणोऽमृतकल्पया । गंभीरया जगादैवं पाणिमुत्क्षिप्य दक्षिणं ॥ १३१ ॥ कल्याणि कुशलं सर्वं मम कर्मानुभावतः । ननु सर्वमिदं बाले नैजकर्मविचेष्टितं ॥ १३२ ॥ पश्यतां कर्मणां लीलां यदिहागोविवर्जिता । बंधुनिर्वास्यतां याता महेंद्रस्येययमात्मजा ॥१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org