SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३९१ सप्तदशं पर्व । जगाद च न शक्नोमि प्रयातुं पदमप्यतः । तिष्ठाम्यत्रैव देशेहं प्राप्नोमि मरणं वरं ॥ १०८ ॥ सांत्वयित्वा ततो वाक्यः कुशला हृदयंगमैः । विश्रमय्य प्रणम्योचे सख्येवं प्रेमतत्परा ॥१०९॥ पश्य पश्य गुहामेतां देवि नेदीयसी परां । कुरु प्रसादमुत्तिष्ठ स्थास्यावोऽत्र यथासुखं ॥११०॥ प्रदेशे संचरंतीह प्राणिनः क्रूरचेष्टिताः । ननु ते रक्षणीयोयं गर्भः स्वामिनि मामुह ॥ १११ ॥ इत्युक्वा सानुरोधेन सख्या वनभयेन च । गमनाय समुत्तस्थौ भूयोऽपि परितापिनी ॥ ११२ ॥ महानुभावतायोगादनुज्ञातेरभावतः । हीतश्च नांतिकं वायोरयासिष्टामिमे तदा ॥ ११३ ॥ हस्तावलंबदानेन ततस्तां विषमां भुवं । लंघायेत्वा सखी कृच्छ्राद्गुहाद्वारमुपाहरत् ।। ११४ ॥ प्रवेष्टुं सहसा भीते तत्र ते तस्थतुः क्षणं । विषमग्रावसंक्रांतिसंजातविपुलश्रमे ॥ ११५ ॥ विश्रांताभ्यां चिरादृष्टिस्तत्राभ्यां न्यासि मंदगा । म्लानरक्तशितिश्वेतनीरजस्रक्समप्रभा ११६ अपश्यतां ततः शुद्धसमामलशिलातले । पर्यकसुस्थितं साधु चारणातिशयान्वितं ॥ ११७ ॥ निभृतोच्छासनिश्वासं नासिकाग्राहितेक्षणं । ऋजुश्लथवपुर्यष्टिं स्थाणुवच्चलनोज्झितं ।। ११८ ॥ अंकस्थवामपाण्यकन्यस्तान्योत्तानपाणिकं । निष्प्रकंपं नदीनाथगांभीर्यस्थितमानसं ॥ ११९ ॥ ध्यायंतं वस्तुयाथात्म्यं यथाशासनभावनं । निश्शेषसंगनिर्मुक्तं वायुवद्गगनामलं ॥ १२० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy