________________
पद्मपुराणम् ।
सप्तदशं पर्व । युक्तां मतंगमालाभिय॑स्यंती कृच्छ्रतः पदं । मतंगमालिनी नाम प्राप मानसदुर्गमां ।। ९५ ॥ शक्तापि गगने गंतुं पद्भ्यां तस्याः सखी ययौ । प्रेमबंधनसंबद्धा छायावृत्तिमुपाश्रिता ।। ९६ ॥ भयानकां ततः प्राप्य तामसौ संकटाटवीं । वेपमानसमस्तांगा कांदिशीत्वमुपागमत् ॥९७॥ ततस्तामाकुलां ज्ञात्वा गृहीत्वा करपल्लवे । आली जगाद माभैषीः स्वामिन्येहीति सादरात् ९८ ततः सख्यसविन्यस्तविस्वंशिकरपल्लवा । दर्भसूचीमुखस्पर्शकणितेक्षणकोणिका ॥ ९९ ॥ तत्र तत्रैव भूदेशे न्यस्यंती चरणौ पुनः । स्तनंती दुःखसंभाराद्देहं कृच्छ्रेण विभ्रती ॥१०॥ उत्तरंती प्रयासेन निर्झरान वेगवाहिनः । स्मरंती स्वजनं सर्व निष्ठुराचारकारिणं ॥ १०१ ॥ निंदंती स्वमुपालंभं प्रयच्छंती मुहुर्विधैः । कारुण्यादिव वल्लीभिश्लिष्यमाणाखिलागिका १०२ त्रस्तसारंगजायाक्षी श्रमजस्वेदवाहिनी । सक्तं कंटकिगुच्छेषु मोचयत्यंशुकं चिरात् ॥१०३ ।। क्षतजेनाचितौ पादौ लाक्षिताविव विभ्रती । शोकाग्निदाहसंभूतां श्यामतां दधतीं परां ॥१०४॥ दलेऽपि चलिते त्रासं व्रजंती चलविग्रहा । संत्रासस्तंभितावूरू वहंती खेददुवहौ ॥ १०५ ॥ मुहुर्विश्रम्यमानात्मा नितांतप्रियवाक्यया । गिरेः प्रापांजना मूलं शनकैरिति दुःखिताः॥१०६॥ तत्र धारयितुं देहमसक्ता साश्रुलोचना । अपकर्ण्य सखीवाक्यं महाखेदादुपाविशत् ॥ १०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org