________________
पद्मपुराणम् ।
सप्तदशं पर्य। सर्वेषामेव जंतूनां पृष्ठतः पार्श्वतोऽग्रतः । कर्म तिष्ठति यदेवि तत्र कोऽवसरः शुचः ॥८२॥ अप्सर शतनेत्रालीनिलयीभूतविग्रहाः । प्राप्नुवन्ति परं दुःखं सुकृतांते सुरा अपि ।। ८३ ।। चिंतयत्यन्यथा लोकः प्राप्नोति फलमन्यथा । लोकव्यापारशक्तात्मा परमो हि गुरुर्विधिः।।८४॥ हितंकरमपि प्राप्तं विधिर्नाशयति क्षणात् । कदाचिदन्यदा धत्ते मानसस्याप्यगोचरं ॥ ८५ ॥ गतयः कर्मणां कस्य विचित्राः परिनिश्चिताः। तस्मात्त्वमस्य माकार्षीय॑थां गर्भस्य दुःखिताः८६ आक्रम्य दशनैदेतान् कृत्वा ग्रावसमं मनः । कर्म स्वयं कृतं देवि सहस्वाशक्यवजेनं ॥ ८७ ॥ ननु स्वयं विबुद्धाया मया ते शिक्षणं कृतं । अधिक्षेप इवाभाति वद ज्ञातं न किं तव ।। ८८ ॥ अभिधायेति सा तस्या नयने शोणरोचिषी । न्यमाष्टं वेपथोयुक्ता पाणिना सांत्वतत्परा ॥८९॥ भूयश्चोचे प्रदेशोयं देवि संश्रयवर्जितः। तस्मादुत्तिष्ठ गच्छावः पार्श्वमस्य महीभृतः ।। ९० ॥ गुहायामत्र कस्यांचिदगम्यायां कुजंतुभिः । सूतिकल्याणसंप्राप्त्यै समयं किंचिदास्वहे ॥ ९१ ॥ ततस्तयोपदिष्टा सा पदवीं पादचारिणी । गर्भभाराद्विपच्चारमसमर्था निषेवितुं ।। ९२ ॥ अनुयांती महारण्यधरणीं समयागिरि । व्यालजालसमाकीर्णा तन्नादात्यंतभीषणां ।। ९३ ॥ महानोकहसंरुद्धदिवाकरकरोत्करां । महीभृत्पादसंकीणां दर्भसूचीसुदुश्चरां ॥ ९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org