________________
पद्मपुराणम् ।
३८८
सप्तदर्श पर्व ।
श्वश्रवादिकृतदुःखानां नारीणां पितुरालये । अवस्थानं ममापुण्यैरिदमप्यवसारितं ॥ ६९ ॥ मात्रापि न कृतं किंचित्परित्राणं कथं मम । भर्तृच्छंदानुवर्तिन्यो जायंते च कुलांगनाः ॥ ७० ॥ त्वया विज्ञातगर्भायामेष्यामीति त्वयोदितं । हा नाथ वचनं कस्मात्स्मर्यते न कृपावता ॥ ७१ ॥ अपरीक्ष्य कथं श्वश्रु त्यक्तुं मामुचितं तव । ननु संदिग्धशीलानां संत्यपायाः परीक्षणे ॥ ७२ ॥ उत्संगलालिता वाल्ये सदा दुर्लडितात्मिकां । निष्परीक्ष्य पितस्त्यक्तुं मां कथं तेऽभवन्मतिः ७३ हा मातः साधुवाक्यं ते न कथं निर्गतं मुखात् । सकृदप्युत्तमा प्रीतिरधुना सा किमुज्झिता ७४ कोदरोषितां भ्रात्रातुं ते मां सुदुःखितां । कथं न काचिदुद्भूता चेष्टा निष्ठुरचेतसः ||७५ || यत्र यूयमिदंचेष्टाः प्रधाना बंधुसंहतिः । तत्र कुर्वंतु किं शेषा वराका दूरबांधवाः ।। ७६ ।। अथवा कोऽत्र वो दोषः पुण्यार्तो मम निष्ठिते ( 2 ) । फलिते पुण्यवृक्षोयं निषेव्यो वशया मया ७७ प्रतिशब्दसमं तस्या विलापमकरोत्सखी । तदाकंद विनिर्धूतधैर्य दूरितमानसा || ७८ ॥ अत्यंत दीनमेतस्यां रुदत्यां तारनिस्वनं । मृगीभिरपि निर्मुक्ताः सुस्थूला वाप्पविंदवः ॥ ७९ ॥ ततश्चिरं रुदित्वैनामरुणीभूतलोचनां । सखी दोर्भ्यां समालिंग्य जगादैवं विचक्षणा ॥ ८० ॥ स्वामिन्यलं रुदित्वा ते नन्ववश्यं पुराकृतं । नेत्रे निमील्य षोढव्यं कर्म पाकमुपागतं ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org