________________
पद्मपुराणम् ।
३८७
सप्तदशं पर्व। दुःखप्रत्यायनस्वांतस्तावल्लोकोऽवतिष्ठतां । जातमेव ममाप्यत्र मनोऽद्य कृतशंकनं ॥ ५६ ॥ एषा भर्तुरचक्षुष्या श्रुता पूर्व मयाऽसकृत् । ततस्तेन न संभूतिरस्या गर्भस्य निश्चिता ॥ ५७ ॥ तस्मादन्योऽपि यस्तस्मै प्रयच्छति समाश्रयं । वियोज्यः स मया प्राणैरित्येष मम संगरः।।५८॥ कुपितेनेति सा तेन द्वारादविदिता परैः । निर्घाटिता समं सख्या दुःखपूरितविग्रहा ॥ ५९॥ यद्यत्स्वजनगेहं सा जगामाश्रयकांक्षया । तत्र तत्राप्यधीयंत द्वाराणि नृपशासनान् ॥६० ॥ यत्रैव जनकः क्रुद्धो विदधाति निराकृतिं । तत्र शेषजने कास्था तच्छंदकृतचेष्टिते ॥ ६१ ॥ एवं निर्घाध्यमाणा सा सर्वत्रात्यंतविक्लवा । सखीं जगाद वाष्पौघसमाीकृतदेहिका ॥ ६२॥ अंबे इहात्र किं भ्रातिं कुर्वत्यावास्वहे सखि | पाषाणहृदयो लोको जातोऽयं नः कुकर्मभिः ॥६३॥ वनं तदेव गच्छावस्तत्रैवास्तु यथोचितं । अपमानात्ततो दुःखान्मरणं परमं सुखं ॥ ६४ ॥ इत्युक्त्वासौ समं सख्या तदेव प्राविशद्वनं । मृगीव मोहसंप्राप्ता मृगराजविभीषिता ।। ६५ ।। वातातपपरिश्रांता दुःखसंभारपीडिता । उपविश्य वनस्यांतं सा चके परिदेवनं ॥ ६६ ॥ हा हता मंदभाग्यास्मि विधिना दुःखदायिना । अहेतुवैरिणा कष्टं के परित्राणमाश्रये ॥ ६७ ॥ दौर्भाग्यसागरस्यांते प्रसादं कथमप्यगात् । नाथो मे स गतस्त्यक्त्वा दुष्कर्मपरिचोदितः॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org