________________
पद्मपुराणम्।
३८६
सप्तदशं पर्व। क्रूरयेयं यथा त्यक्ता कल्याणाचारतत्परा । भवतापि विनिर्द्धता शरणं कं प्रपद्यतां ॥ ४३ ॥ व्याघ्रदृष्टमृगीवेयं मुग्धास्या त्रासमागता । श्वश्रूतस्त्वां महाकक्षसमं शरणमागता ॥४४॥ सेयं निदाघसूर्यांशुसंतापादिव दुःखिता । महातरूपमं बाला विदित्वा त्वां समागता ॥ ४५ ॥ श्रीवत्स्वर्गात्परिभ्रष्टा वराकी विह्वलात्मिका । अभ्याख्यानतया लीढा कल्पवल्लीव कंपिनी ४६ द्वारपालनिरोधेन सुतरामागता त्रपां । वैलक्ष्यादंशुकेनांगमवगुंठ्य समूर्द्धकं ॥ ४७ ॥ पितृस्नेहान्विता द्वारे सदा दुर्लडितात्मिका | तिष्ठतीत्यमुना ख्यातं द्वारपालेन पार्थिव ॥४८॥ स त्वं कुरु दयामस्यां निर्दोषयं प्रवेश्यतां । ननु केतुमती ज्ञाता क्रूरा कस्य न विष्टपे ॥ ४९।। तस्य तद्वचनं श्रोत्रे राज्ञश्चक्रे न संश्रयं । नलिनीदलविन्यस्तं विंदुजालमिवांसभः ॥ ५० ॥ जगाद च सखी स्नेहात्कदाचित्सत्यमप्यदः । अन्यथाकथयत्केन निश्चयोऽत्रावधार्यते ॥५१॥ तस्मात्संदिग्धशीलेयमाशु निर्वास्यतामतः । नगराधावदमले कुले नो जायते मलं ।। ५२ ।।। विशुद्धविनया चा: चारुचेष्टाविधायिनी । भवेदभ्यर्दितात्यंतं कस्य नो कुलबालिका ॥ ५३॥ पुण्यवंतो महासत्वा पुरुषास्तेऽतिनिर्मलाः । यैः कृतो दोषमूलानां दाराणां न परिग्रहः ॥५४॥ परिग्रहे तु दाराणां भवत्येवंविधं फलं । यस्मिन्गते सति ख्याति भूप्रदेशोभिवांछयते ॥५५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org