________________
पद्मपुराणम् ।
सप्तदशं पर्व। ततो दीर्घोष्णनिश्वासनितांतम्लानपल्लवं । प्रभाते शयनं त्यक्त्वा नानाशंकातिविक्लवा ॥३०॥ कृतानुगमना सख्या छाययेवानुकूलया । ऐत्पितुमंदिरद्वारं सकृपं वीक्षिता जनैः ॥३१॥ ततस्तत्प्रविशंती सा निरुद्धा द्वाररक्षिणा । प्राप्ता रूपांतरं दुःरवादविज्ञाता व्यवस्थिता ॥ ३२॥ ततो निखिलमेतस्याः सख्या कृतनिवेदितं । विज्ञाय स्थापयित्वान्यन्नरं द्वारे ससंभ्रमः॥३३॥ गत्वा शिलाकवाटाख्यो द्वारपालः कृतानतिः । सुतागमं महीपाणिरुपांश्वीशं व्यजिज्ञपत् ॥३४॥ ततः प्रसन्नकीर्ताख्यं महेंद्रः पार्श्वगं सुतं । आज्ञापयन् महाभूत्या तस्याः शीघ्रं प्रवेशनं ॥३५॥ पुरस्य क्रियतां शोभा साधनं परिसज्जतां । स्वयं प्रवेशयामीति पुनरूचे नराधिपः ॥ ३६ ॥ जगादासौ ततस्तस्मै द्वारपालो यथास्थितं । सुतायाश्चरितं कृत्वा वदने पाणिपल्लवं ॥ ३७ ।। ततः श्रुत्वा त्रपाहेतुं पिता तस्या विचेष्टितं । प्रसन्नकीर्तिमित्यूचे परमं कोपमागतः ॥ ३८ ॥ निवास्यतां पुरादस्मादरं सा पापकारिणी । यस्या मे चरितं श्रुत्वा वज्रेणेवाहत श्रुती ॥ ३९ ॥ ततो नाम्ना महोत्साहः सामंतोऽस्यातिवल्लभः । जगाद नाथ नो कर्तुमेवं कर्तुमिमां प्रति ४० वसंतमालया ख्यातं यथास्मै द्वाररक्षिणे । एवमेव न युक्ता तु विचिकित्सा विकारिणा ॥४१॥ श्वश्रूः केतुमती क्रूरा लौकिकश्रुतिभाविता । अत्यंतमविचारास्या विना दोषात्कृतोज्झिता ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org