________________
पद्मपुराणम् ।
३८४
सप्तदशं पर्व ।
अश्रुधारां विमुंचतीं शलाकास्फाटिकीमिव । स्तनमध्ये क्षणं न्यस्तपर्यंतामनवस्थितां ॥ १७ ॥ सख्या समं समारोप्य यानं तत्कर्मदक्षिणः । क्रूरः प्रवकृते गंतुं महेंद्रनगरं प्रति ॥ १८॥ दिनांते तत्पुरस्यांतं संप्राप्योवाच सुंदरीं । एवं मधुरया वाचा क्रूरः कृतनमस्कृतिः ॥१९॥ स्वामिनीशासनादेवि कृतमेतन्मया तव । दुःश्वस्य कारणं कर्म ततो न क्रोद्भुमर्हसि ॥ २० ॥ एवमुक्त्वावतायैतां यानात्सख्या समन्वितां । स्वामिन्यै द्रुतमागत्य कृतामाज्ञां न्यवेदयत् २१ ततोजना समालोक्य दुःवभारादिवोत्तमा । मंदीभूतप्रभाचक्ररविरस्तमुपागमत् ॥ २२॥ लोचनच्छाययेवास्या रोदनात्यंतशोणया । रवित्राणाय पश्यंत्या पश्चिमाशारुणाऽभवत् ॥२३ ।। ततस्तदुःखितो मुक्तैर्वाष्परिव घनैरलं । दिग्भिनिरंतरं चक्रे श्यामलं नभसस्तलं ॥ २४ ॥ तद्दुःखादिव संप्राप्ता दुःखसंघातकारिणः । कुलायेष्वाकुलाश्चनुर्वयः कोलाहलं परं ॥ २५ ॥ ततो दुःखमविज्ञाय सा क्षुदादिसमुद्भवं । अभ्याख्यानमहादुःखसागरप्लवकारिणी ॥ २६ ॥ भीतांतर्वदनं साश्रु कुर्वती परिदेवनं । सख्या विरचिते तस्थौ पल्लवे संस्तरेऽजना ॥ २७ ॥ न तस्या नयने निद्रा तस्यां रात्रावढौकत । दाहादिव भयं प्राप्ता संततोष्णानुसंभवात् ॥२८॥ पाणिसंवाहनात्सख्या विनिर्धूतपरिश्रमा । सांत्वमाना निशां निन्ये कृच्छ्रेणासौ समासमं ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org