________________
पर्व
पद्मपुराणम् ।
उपाय गमनस्यायं मया विरचितस्तव । दयितासंगमस्तस्मादिदानीं तत्र त्यज्यतां ॥ २२६ ॥ आज्ञेयं करणीया ते स्वामिनो जनकस्य च । क्षेमादागम्य सततं दयितां मानयिष्यते || २२७॥ एवं करोमि साधूक्तं सुहृदेत्यभिधाय सः । कृत्वा तनुगतं कर्म सन्निधापितमंगलं ॥ २२८ ॥ रहस्यांलिंग्य दथितां चुंबित्वा स्फुरिताधरं । जगाद देवि माकार्षीरुद्वेगं त्वं व्रजाम्यहं ॥२२९॥ अचिरेणैव कालेन विधाय स्वामिशासनं । आगमिष्यामि निर्वृच्या तिष्ठेति मधुरस्वरः ॥ २३०॥ ततो विरहतो भीता तद्वक्त्रगतलोचना । कृत्वा करयुगांभोजं जगादांजन सुंदरी || २३१ || आर्यपुत्रर्तुमत्यस्मिन् भवता कृतसंगमा । ततस्त्वद्विर हे गर्भो ममावाच्यो भविष्यति ।। २३२ ।। तस्मान्निवेद्य गच्छ त्वं गुरुभ्यो गर्भसंभवं । क्षेमाय दीर्घदर्शित्वं कल्प्यते प्राणधारणं ॥ २३३ ॥ एवमुक्तो जगादास देवि पूर्व त्वया विना । निष्क्रांतो निश्चितो महागुरूणां सन्निधावहं २३४ अधुना गमनं तेभ्यस्तदर्थं गदितुं त्रपे । चित्रचेष्टं च विज्ञाय मां जन स्मेरतां व्रजेत् ॥ २३५ ॥ तस्माद्यावदयं गर्भस्तव नैति प्रकाशतां । तावदेवात्र जिष्यामि मात्राजीर्विमनस्कतां ॥ २३६ ॥ इमं प्रमादनोदार्थं मन्नामकृतलक्षणं । गृहाण वलयं भद्रे शांतिस्ते तो भविष्यति ।। २३७ ॥ इत्युक्त्वा वलयं दत्वा सांत्वयित्वा मुहुः प्रियां । उक्त्वा वसंतमालां च तदर्थं समुपासनं ॥ २३८ ॥
Jain Education International
३८१
For Private & Personal Use Only
www.jainelibrary.org