________________
पद्मपुराणम् ।
३८२
सप्तदशं पर्व ।
रतव्यतिकरच्छिनहारमुक्ताफलाचितात् । पुष्पगंधपरागोरुसौरभाकृष्टषट्पदात् ।। २३९ ॥ तरंगिप्रच्छदपटाद् दुग्धाब्धिद्वीपसन्निभात् । शयनीयात्समुत्तत्थौ प्रियावस्थितमानसः ॥२४॥ मंगल वंसभीत्या च प्रियया साश्रुनेत्रया । अदृष्टिगोचरं दृष्टः समित्रो वियदुद्ययौ ॥ २४१ ।।
कदाचिदिह जायते स्वकृतकर्मपाकोदया । त्सुखं जगति संगमादभिमतस्य सद्वस्तुनः ॥ कदाचिदपि संभवत्यसुभृतामसौख्यं परं । भवे भवति न स्थितिः समगुणा यतःसर्वदा २४२ अथापि जननात्प्रभृत्यविरतं सुखं प्राणिनां । मृतोरविरतो भवेत्तनु तथाप्यमुत्रासुखं ॥ ततो भजत भो जनः सततभूरिसौख्यावहं । भवासुखतमश्छिदं जिनवरोक्तधर्म रवि ॥२४३॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्म-चरिते पवनांजनासंभोगाभिधानं नाम षोडशं पर्व ।
अथ सप्तदशं पर्व। कियत्यपि प्रयातेप्थ काले गर्भस्य सूचकाः । विशेषाः प्रादुरभवन्महेंद्रतनयातनौ ॥१॥ इयाय पांडुतां छाया यशसेव हनूमतः । मतिमंदतरत्वं च मतिर्दिनागविभ्रमा ॥२॥ स्तनावत्युन्नति प्राप्तौ श्यामलीभूतचूचुकौ । आलस्याभ्रूसमुत्क्षेपं चकार विषयो गिरः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org