________________
३७९
पद्मपुराणम् ।
षोडशं पर्व । तस्यास्ते काम्यमानाया नेत्रकेकरतारके । मुकुले दधतुः शोभां चलालींदीवरस्थिती ॥ २०० ॥ प्रस्वेदविंदुनिकरस्तस्या मुखकुचोद्गतः । स्वच्छमुक्ताफलाकारो रतस्यांतेऽत्यराजत ॥ २०१॥ रदग्रहारुणीभूतं साधरं विभ्रती बभौ । पलाशवनराजीव समुद्भूतैककिंशुकः ॥ २०२ ॥ प्रियमुक्तातनुस्तस्या ऊहे कांतिमनुत्तमा । कनकाद्रितटाश्लिष्टघनपंक्तिकृतोपमां ॥ २०३ ॥ ततः संप्राप्तकृत्ये तो समाप्ते सुरतोत्सवे । दंपती सेवितुं निद्रां खिन्नदेहाववांछतां ॥ २०४ ॥ परस्परगुणध्यानवशमानसयोस्तु सा । इय॑येव तयोर्दू कोपात्कापि पलायिता ।। २०५ ॥ ततः प्रियां स देशस्थदयितामूर्द्धदेशकं । कृतान्योन्यभुजाश्लेषं परमप्रेमकीलितं ॥ २०६ ॥ महासौरभनिश्वासवासितास्यसरोरुहं । विकटोरःपरिष्वंगचक्रितस्तनमंडलं ॥ २०७॥ नरोवंतरनिक्षिप्तवनितेकोरुभारकं । यथेष्टदेशविन्यस्तनानाकारोपधानकं ॥ २०८ ॥ नागीयमिव तत्कातं मिथुनं कथमप्यगात् । निद्रां स्पर्शसुखांभोधिनिमग्नालीनविग्रहं ॥ २०९ ॥ जाते मंदप्रभातेथ शयनीयात्समुत्थिता । पार्थासन्नस्थिता कांतमंजना पर्यषेवत ॥ २१० ॥ दृष्ट्वा परिमलं देहे स्वस्मिन् साभूत्रपावती । प्रमदं च परिप्राप्ता चिराल्लब्धमनोरथा ॥२११।। तयोरज्ञातयोरेवं यथोचितविधायिनोः । अतीयाय निशानेका क्षणाद्दर्शनभीतयोः ॥ २१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org