________________
पद्मपुराणम् ।
३७८
षोडशं पर्व ।
पुनः पुनश्वकारासौ स्वेदिना पाणिना स्पृशन् । आप्तसेवा हि सा नूनं क्रियते वक्त्रचुंबने १८७ ततः प्रबुद्धराजीवगर्भच्छदसमप्रभं । स पपावधरं तस्या विमुंचंतमिवामृतं ॥ १८८ ॥ नीवीविमोचनव्यग्रपाणिमस्यत्र पावती । रोद्धुमैच्छन्नचाशक्ता पाणिना वेपथुश्रिता ॥ १८९ ॥ ततो नितंबफलकं दृष्ट्वास्या वसनोज्झितं । उवाह हृदयं वायुर्मनाभूवेगरंगितं ॥ १९० ॥ अथ केनापि वेगेन परायचीकृतात्मना । गृहीता दयिता गाढं पवनेनाब्जकोमला ॥ १९९ ॥ यथा ब्रवीति वैदग्ध्यं यथा ज्ञापयति स्मरः । अनुरागो यथा शिक्षां प्रयच्छति महोदय: १९२ तथा तयो रतिः प्राप्ता दंपत्योर्वृद्धिमुत्तमां । काले तत्र हि यो भावो नैवाख्यातुं स पार्यते १९३ स्तनयोः कुंभयोरेष जघने चांगनोत्तमां । आस्फालयन् समारूढो मनोभवमहागजं ॥ १९४ ॥ तिष्ठ मुंच गृहाणेति नानाशब्दसमाकुलं । तयोर्युद्धमिवोदारं रतमासीत्सविभ्रमं ।। १९५ ।। अधरग्रहणे तस्याः पुरुसीत्कारपूर्वकं । प्रविधूतः करो रेजे लताया इव पल्लवः ।। १९६ ॥ प्रियदत्ता नवास्तस्या नखांका जघने बभ्रुः । वैडूर्यजगतीभागे पद्मरागोद्गमा इव ॥ १९७ ॥ तस्याः सेचनकत्वं तु जगाम जघनस्थलं । निमेषमुक्ततन्निष्ठमुकुलीभूतचक्षुषः ॥ १९८ ।। बलयानां रणत्कारः कलालापसमन्वितः । तदा मनोहरो जज्ञे भ्रमरौघरवोपमः ॥ १९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org