________________
पद्मपुराणम् ।
षोडश पर्व। अथानादरतः पूर्व त्रपमाणः स्वयंकृतात् । पवनः कुशलं पृष्टुं न प्रावर्तत चेतसा ॥ १७४ ॥ विलक्षस्तु प्रिये मृष्य मया कर्मानुभावतः । निकारं कृतमित्यूचे तत्क्षणाकुलमानसः ॥ १७५ ॥ आद्यसंभाषणात्सापि वहंती नतमाननं । जगाद मंदया वाचा निश्चलाखिलविग्रहा ॥ १७६ ॥ न कश्चिज्जनितो नाथ त्वया परिभवो मन । अधुना कुर्वता स्नेहं मनोरथसुदुर्लभं ॥ १७७ ॥ त्वत्स्मृतिबद्धं मे वहंत्या ननु जीवितं । त्वदायत्तो निकारोपि महानंदसमोऽभवत् ॥ १७८ ॥ अथैव भाषमाणाया विधाय चिबुकेंगुलिं । उन्नमय्य मुखं पश्यन् जगाद पवनंजयः ॥ १७९ ॥ देवि सर्वापराधानां विस्मृत्यै तव पादयोः । प्रणाममेष यातोस्मि प्रसादं परमं व्रज ॥ १८० ॥ इत्युक्त्वा स्थापितं तेन मूर्द्धानं पादयोः प्रिया । त्वरया करपद्माभ्यामुन्नेतुं व्याप्ताभवत् १८१ तथावस्थित एवासौ ततोवोचत्प्रियं वचः। प्रसन्नोस्मीति येनाहमुद्यच्छामि शिरः प्रिये ॥१८२॥ क्षांतमित्युदितोथासावुन्नमय्यांगमुत्तमं । चक्रे प्रियासमाश्लेषं सुखमीलितलोचनः ॥ १८३ ॥ आश्लिष्टा दयितस्यासौ तथा गात्रेष्वलीयत । पुनर्वियोगभीतेव ज्ञातांतर्विग्रहं यथा ॥ १८४ ॥ आलिंगनविमुक्तायास्तस्यास्तिमितलोचनं । मुखं मुक्तनिमेषाभ्यां लोचनाभ्यां पपौ प्रियः १८५ पादयोः करयो भ्यां स्तनयोश्चिबुकेऽलिके । गंडयोनॆत्रयोश्चास्याश्चुंबनं मदनातुरः ॥ १८६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org