________________
पद्मपुराणम् ।
३७६.
षोडशं पर्व । कल्याणि मामणीरेवं क्षमस्व जनितं मया । आगो विचारशून्येन पापावष्टब्धचेतसा ॥ १६१ ॥ प्राप्तानि विलयं नूनं दुष्कर्माणि तवाधुना । येन प्रेमगुणाकृष्टो जीवितेशः समागतः ॥ १६२ ।। अधुनास्मिन् प्रसन्नेति किं न जातं सुखावहं । ननु चंद्रेण शर्वर्याः संगमे का न चारुता ॥१६३।। ततः क्षणं स्थिता चेदं जगादांजनसुंदरी । प्रतिनिस्वनवत्येवं सख्यनूदितया गिरा ।। १६४ ॥ असंभाव्यमिदं भद्र ? यथा वर्ष जलोज्झितं । भवत्यप्यथवा काले कल्याणं कर्म चोदितं १६५ तथास्तु स्वागतं तस्य जीवितस्येशितुर्मम । अद्य मे फलितः पूर्वशुभानुष्ठानपादपः ॥ १६६ ॥ वदंत्यामेवमेतस्यामानंदात्प्राप्तचक्षुषि । तत्सख्येवांतिकं नीतस्तस्याः करुणया प्रियः ॥ १६७ ॥ त्रस्तसारंगकांताक्षी दृष्ट्वा तं परमोत्सवं । जानुद्वयासकृन्न्यस्तस्रस्तपाणिसरोरुहा ॥ १६८ ॥ स्तंभवत्प्रसृता कांडा वेपथुश्रितविग्रहा । शनैरुत्थातुमारब्धा शयनस्था प्रयासिनी ॥ १६९ ॥ अथालमलमेतेन देवि क्लेशविधायिना । संभ्रमेणेति वचनं विमुंचनमृतोपमं ॥१७० ॥ समुत्थितां प्रियां कृच्छ्रादंजलिं बद्धमुद्यतां । गृहीत्वा दयितः पाणौ शयने समुपाविशत् ॥१७१॥ स्वेदी पाणिरसौ तस्याः परमं पुलकं वहन् । प्रियस्पर्शामृतेनेव सिक्तो व्यामुंचदंकुरान् ॥१७२॥ नत्वा वसंतमाला तं कृत्वा भाषणमादरात् । साकं प्रहसितेनास्थाद्रम्ये कक्षांतरे सुखं ॥ १७३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org