________________
पद्मपुराणम् ।
३७५
षोडशं पर्व ।
माल्यानुलेपनादीनि गृहीत्वा त्वरयान्वितः । पुरः प्रहसितं कृत्वा वायुर्गगनमुद्ययौ ॥ १४८ ॥ तावच्च भानुरैदस्तं कृपयेव प्रचोदितः । विश्रब्धमेतयोर्योगो निशीथे जायतामिति ॥ १४९ ॥ संध्यां लोकपरिध्वंसहेतुना तमसान्वितां । जगत्स्पर्शन विज्ञेय पदार्थमभवत्ततः ।। १५० ।। प्राप्तश्चजनसुंदर्या गृहे प्रग्रीवकोदरे । वायुरस्थात्प्रविष्टस्तु तस्याः प्रहसितोंतिकं ॥ १५१ ॥ ततस्तं सहसा दृष्ट्वा मंददीपप्रकाशतः । अंजना विव्यथेऽत्यर्थं कः कोयमिति वादिनी ।। १५२ ।। सखीं वसंतमालां च सुप्तां पार्श्वे व्यनिद्रयत् । कुशलोत्थाय सा तस्याश्वकार भयनाशनं १५३ ततः प्रहसितोस्मीति गदित्वासौ नमस्कृतिं । प्रयुज्याऽकथयत्तस्यै पवनंजयमागतं ॥ १५४ ॥ ततः स्वप्नसमं श्रुत्वा प्राणनाथस्य सागमं । ऊचे प्रहसितं दीनमिदं गद्गदया गिरा ।। १५५ । किं मां प्रहसितापुण्यां हससि प्रियवर्जितां । ननु कर्मभिरेवाहं हसिता तिमलीमसैः ।। १५६ ।। प्रियेण परिभूतेति विदित्वा वद केन नो । परिभूतास्मि निर्भाग्या दुःखावस्थानविग्रहा || १५७।। विशेषतस्त्वया कांतः प्रोत्साह्य क्रूरचेतसा । एतामारोपितोऽवस्थां मम कृच्छ्रविधायिनीं १५८ अथवा भद्र ते कोऽत्र दोषः कर्मवशीकृतं । जगत्सर्वमवाप्नोति दुःखं वा यदि वा सुखं ।। १५९ ॥ इति साश्रुवदंती तामात्मनिंदनतत्परां । नत्वा प्रहसितोऽवोचदुःखाद्रीकृतमानसः ।। १६० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org