________________
पद्मपुराणम् ।
३७४
षोडश पर्व।
क्रूरेऽपि मयि सामीप्यादियंतं समयं तया । आत्मा संधारिता नित्यं प्रवृत्तनयनांभसा ॥१३५॥ आगच्छता मया दृष्टा तस्याश्चेष्टाधुना तु या । तया जानामि सा नूनं न प्राणिति वियोगिनी ॥ तस्या विनाऽपराधेन मया परिभवः कृतः । द्वयग्रं विंशतिमब्दानां पाषाणसमचेतसा ॥ १३७॥ आगच्छता मया दृष्टं तस्यास्तन्मुखपंकजं । शोकपालेयसंपर्कान्मुक्तं लावण्यसंपदा ॥१३८ ॥ तस्यास्ते नयने दीर्घ नीलोत्पलसमप्रभे । इषुवत्स्मृतिमारूढ़े हृदयं विध्यतेधुना ॥ १३९ ।। तदुपायं कुरु त्वं तमावयोर्येन संगमः । जायेत मरणं माभूदुभयोरपि सज्जन ॥ १४०॥ ऊचे प्रहसितोप्येवं क्षणनिश्वलविग्रहः । उपायचिंतनात्यंतचलदोलास्थमानसः ॥ १४१॥ कृत्वा गुरुजनापृच्छां निगेतस्य तवाधुना । शत्रुनिर्जेतुकामस्य सांप्रत न निवर्तनं ॥ १४२ ॥ समक्षं गुरुलोकस्य नानीता प्रथमं च या । लज्यते तामिहानेतुमधुनांजनसुंदरीं ॥ १४३ ॥ तस्मादविदितो गत्वा तत्रैवैतां त्वमानय । नेत्रयोर्गोचरीभावं संभाषणसुखस्य च ॥ १४४ ॥ जीवितालंबनं कृत्वा चिरात्तस्याः समागमं । ततः क्षिप्रं निवर्तस्व शीतलीभूतमानसः ॥१४५॥ निरपेक्षस्ततो भूत्वा वहन्नुत्साहमुत्तमं । गमिष्यसि रिपुं जेतुमुपायोयं सुनिश्चितः ॥१४६ ॥ ततः परममित्युक्त्वा सेनान्यं मुद्राभिधं । नियुज्य वलरक्षायां व्याजतो मेरुवंदनात् ॥१४७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org