________________
६७३
पद्मपुराणम्।
षोडश पर्व । मम वज्रमयं नूनं हृदयं पापचेतसः । प्रत्यवस्थित यत्कालमियंतं तां प्रियां प्रति ॥ १२२ ॥ किं करोम्यधुना तातमापृच्छय निरितो गृहात् । कथं तु विनिवर्तेहमहो प्राप्तोऽसि संकटं १२३ व्रजेयं यदि संग्रामं जीवेन्नासौ ततः स्फुटं । तदभावे ममाभावः स्वतश्च गुरु नापरं ॥ १२४ ॥ अथवा सर्वसंदेहग्रंथिभेदनकारणं । विद्यते में परं मित्रं तत्रेदं तिष्ठते शुभे ॥ १२५ ।।। तस्मात्पृच्छाम्यमुं तावत्सर्वाचारविशारदं । निश्चित्य विहिते कार्ये लभंते प्राणिनः सुखं ॥१२६॥ इति च ध्यातमेतेन दृष्ट्वा चैवं विचेतसं । मंदं प्रहसितोऽपृच्छद्देवं तदुःखदुःखितः ॥ १२७ ॥ सखे प्रतिनरोच्छेदकृतये प्रस्थितस्य ते । कस्माद्वदनमद्यैवं विषण्णमिव दृश्यते ॥ १२८ ॥ अपत्रपां विमुच्याशु मह्यं सुजन वेदय । नितांतमाकुलीभावो जातो मे भवतीशि ॥ १२९ ॥ ततोसावेवमुक्तः सन् कृच्छनित्रपया गिरा । जगादेति परं भ्रंशं दूरधैर्यादुपागतः ॥ १३० ॥ शृणु सुंदर कस्यान्यत्कथनीयमिदं मया । ननु सर्वरहस्यानां त्वमेव मम भाजनं ॥ १३१ ।। स त्वं कथयितुं नैतदन्यस्सै सुहृदहसि । त्रपा हि वस्तुनानेन जायते परमा मम ॥ १३२ ॥ ततः प्रहसितोऽवोचद्विश्रब्धस्त्वं निवेदय । त्वयाहि वेदितो मेऽर्थस्तप्ताऽयोगत-वारिवत् ॥१३३॥ ततो वायुरुवाचेदं शृणु मित्रांजना मया । न कदाचित्कृतप्रीतिरिति मे दुःखितं मनः ॥१३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org