________________
पद्मपुराणम् ।
३७२
षोडशपर्व ।
धुन्वानां पक्षी वेगात्पातोत्पातकृतश्रमः । मृणालशकलं स्वादु पश्यंती दुःखिता विषं ॥ १०९ ॥ प्रतिबिंबं निजं दृष्ट्वा जले दयितशंकिनीं । आह्वयंतीं तदप्राप्त्या व्रजंतीं परमां शुचं ॥ ११० ॥ नानादेशोद्भवं श्रुत्वा प्रतिशब्दं प्रियाशया । भ्रमं चक्रमिवारूढां कुर्वती साधुलोचनां ।। १११ ॥ तटपादपमारुह्य न्यस्यतीं दिक्षु लोचने । तत्रादृष्ट्वा पुनः पातमाचरंती महाजवं ॥ ११२ ॥ उन्नयंतीं रजो दूरं पद्मनां पक्षधूतिभिः । चिरं तद्गतया दृष्टया ददर्शासौ कृपादृतः ।। ११३ ।। इति चार्चितयत्कष्टं प्राप्तमस्या इदं वरं । यत्प्रियेण वियुक्तेयं दह्यते शोकबहिना ॥ ११४ ॥ तदेवेदं सरो रम्यं चंद्रचंदनशीतलं । दावकल्पमभूदस्याः प्राप्य नाथवियुक्ततां ।। ११५ ।। रमणेन वियुक्तायाः पल्लवोप्येति खड़तां । चंद्रांशुरपि वज्रत्वं स्वर्गेऽपि नरकायते ।। ११६ ।। इति चिंतयतस्तस्य प्रियायां मानसं गतं । तत्प्रीत्या चैक्षतोद्देशांस्तद्विवा हे निषेवितान् ॥ ११७ ॥ चक्षुषो गोचरीभूतास्तस्य ते शोकहेतवः । बभूवुर्मर्मभेदानां कर्तार इव दुस्सहा ॥ ११८ ॥ अध्यासीच्चेति हा कष्टं मया सा क्रूरचेतसा । मुक्तेयमिव चक्राहा वैक्लव्यं दयितागमत् ॥ ११९ ॥ यदि नाम तदा तस्याः सख्याभाष्यत निष्ठुरं । ततोन्यदीयदोषेण कस्मात्सा वर्जिता मया १२० धिगस्मत्सदृशान्मूर्खानप्रेक्षापूर्वकारिणः । जनस्य जीविना युक्तं ये कुर्वत्यसुखासनं ॥ १२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org