SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । षोडशं पर्व । ततस्तेन म्रियस्वेति संकोचितमुखेन सा । सती निगदितापप्तद्विषण्णा धरणीतले ।। ९६ ।। वायुरच्युत्तमामृद्धिं दधानः कृपयोज्झितः । परमं नागमारुह्य सामंतैः प्रस्थितः समं ।। ९७ ।। वासरे प्रथमे वासौ संप्राप्तो मानसं सरः । आवासयत्तटे तस्य सेनामश्रांतवाहनः ॥ ९८ ॥ तस्यावतरतः सेना शुशुभे नभसस्तलात् । सुरसंततिवन्नानायानशस्त्रविभूषणा ॥ ९९ ॥ आत्मनो वाहनानां च चक्रे कार्य यथोचितं । स्नानप्रत्यवसानादि विद्याभृद्भिः सुमानसैः १०० अथ विद्यावलादाशु रचिते हेमभूमिके । युक्तविस्तारतुंगत्वे प्रासादे चित्तहारिणि ॥ १०१ ॥ सहोपरितले कुर्वन् स्वैरं मित्रेण संकथां । वरासनगतो भाति संग्रामकृतसम्मदः ।। १०२ ।। गवाक्षजालमार्गेण छिद्रेण तटभूरुहान् । ईक्षांचक्रे सरो वायुर्मदवायुविघट्टितं ॥ १०३ ॥ भीमैः कूर्मैर्झषैर्नरैर्मकरैर्दर्पधारिभिः । भिन्नवीचिकमन्यैश्व यादोभिरिति भूरिभिः ॥ १०४ ॥ धौतस्फटिकतुल्यांभः कमलोत्पलभूषितं । हंसैः कारंडुवैः क्रौंचैः सारसैश्चोपशोभितं ॥ १०५ ॥ मंद कोलाहलं देशं मनः श्रोत्रमलिम्लुचं । तदंतरश्रुतोदात्तभ्रमरीकुलझंकृतं ॥ १०६ ॥ तत्र चैकाकिनीमेकामाकुलां चक्रवाकिकां । वियोगानलसंतप्तां नानाचेष्टितकारिणीं ॥ १०७ ॥ अस्ताचलसमासन्नभानुबिंबगतेक्षणां । पद्मिनीदलरंध्रेषु मुहुर्न्यस्तनिरीक्षणां ॥ १०८ ॥ Jain Education International ३७१ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy