________________
पद्मपुराणम् ।
षोडशं पर्व ।
प्रह्लादमपि तत्रायाद्रावणप्रेषितो नरः । स्वामिभक्त्या कृतं चास्य करणीयं यथोचितं ॥ ५७ ॥ विद्यावतां प्रभोर्भद्रं भद्रमित्यर्थचोदितः । सादरं भद्रमित्युक्त्वा सलेखं न्यक्षिपत्पुरः ॥ ५८ ॥ ततः स्वयं समादाय कृत्वा शिरसि संभ्रमात् । प्रह्लादोऽवाचयल्लेखमस्यार्थस्याभिधायकं ॥५९॥ स्वस्तिस्थाने पुरस्यारादलंकारस्य नामतः । निविष्टपृतनः क्षेमी विद्याभृत्स्वामिनां पतिः ||६०|| सौमालिनंदनो रक्षःसंतानांवरचंद्रमाः । आदित्यनगरे भद्रं प्रह्लादं न्यायवेदिनं ॥ ६१ ॥ कालदेशविधानज्ञमस्मत्प्रीतिपरायणं । आज्ञापयति देहादिकुशलप्रश्नपूर्वकं ॥ ६२ ॥ यथा मे प्रणताः सर्वे क्षिप्रं विद्याधराधिपाः । करांगुलिनखच्छायाकपिलीकृतमूर्द्धजाः ॥ ६३ ॥ पातालनगरेयं तु सुसन्नद्धः स्वशक्तितः । वरुणः प्रत्यवस्थानमकरोदिति दुर्मतिः ॥ ६४ ॥ हृदयव्यथविद्याभृच्चक्रेण परिवारितः । समुद्रमध्यमासाद्य दुरात्मायं सुखी किल ॥ ६५ ॥ ततो निगहने युद्धे प्रवृत्ते खरदूषणः । शतेनैतस्य पुत्राणां कथंचिदपवर्तितः ॥ ६६ ॥ संग्रामे संशयो माभूत्प्रमादोस्येति निश्चयः । परित्यक्ता महायुद्धधिषणा कालवेदिना ॥ ६७ ॥ अतस्तत्प्रतिकाराय त्वयावश्यमिहागमः । कर्तव्यो नैव कर्तव्ये प्रस्खलंति भवादृशाः ॥ ६८ ॥ अवधार्य त्वया सार्धं विधास्यामोऽत्र सांप्रतं । भर्तापि तेजसां कृत्यं कुरुते रणसंगतः ॥ ६९ ॥
Jain Education International
३६८
For Private & Personal Use Only
www.jainelibrary.org