________________
३६७
पद्मपुराणम् ।
षोडश पर्व। रावणस्य बलेनामा तेषां युद्धमभूत्परं । अन्योन्यापातसंच्छिन्नविविधायुधसंहतिः ॥४४॥ गजागजैः समं सक्ता वाजिनोऽश्वैरथारथैः । भटाभटैः कृता रावा दष्टोष्ठा रक्तलोचनाः ॥४५॥ पराचीनं ततः सैन्यं त्रिकूटैवारुणं कृतं । चिराय कृतसंग्रामदत्तसोढा युधोत्करं ॥ ४६॥ जलकांतस्ततः क्रुद्धः कालाग्निरिव दारुणः । अधावद्रक्षसां सैन्यं हेतिपंजरमध्यगः ॥ ४७ ॥ ततो दुर्वारवेगं तं दृष्ट्वा यांतं रणांगणे । गोपायितः स्वावाहिन्या रावणो दीप्तशस्त्रया ।। ४८ ॥ वरुणेन कृताश्वासास्ततस्तस्य सुताः पुनः । परमं योद्धमारब्धा विध्वस्तभटकुंजराः ॥ ४९ ॥ ततो यावद्दशग्रीवः क्रोधदीधितमानसः । गृह्णाति कार्मुकं क्रूरः भृकुटीकुटिलालिकः ॥ ५० ॥ दत्तयुद्धश्चिरं तावत्खेदवर्जितमानसः । वारुणीनां शतेनाशु गृहीतः खरदूषणः ॥५१॥ ततश्चित्ते दशग्रीवश्चकारात्यंतमाकुलः । यथा न शोभतेऽस्माकमधुना रणधीरिति ॥ ५२ ॥ खरदूषणभद्रस्य प्रवृत्ते परमाहवे । माभून्मरणसंप्राप्तिस्तस्माच्छांतिरिहोचिता ॥५३ ।। । इति निश्चित्य संग्रामशिरसोसमसाहसः । नोदाराणां यतः कृत्ये मुच्यते चेतसा रसः ॥ ५४॥ ततः स मंत्रिभिः साकं प्रवीणैर्मत्रवस्तुनि । संमंत्र्य निजसामंतान् स्वदेशसमवस्थितान् ॥५५॥ समग्रबलसंयुक्तान्सर्वान् दीर्घाध्वगामिभिः । आहाय यच्छिरोबद्धलेखमालैरिति द्रुतं ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org