________________
पद्मपुराणम् ।
३६६
राजपुत्री भवत्वेषा प्रेमसंभारभाजनं । भर्तुरस्मत्कृतेनापि पुण्यजातेन सर्वथा ॥ ३१ ॥ अथवा विद्यते नैव पुण्यं नात्यंतमण्वपि । निमग्ना येन तिष्ठामो बाला दुःखमहार्णवे ।। ३२ ।। भविष्यति कदा श्लाघ्यः सुमुहूतोंकवर्तिनी । बालामिमां प्रियो नर्मगिरा यत्र लपिष्यति ||३३|| अत्रांतरे विरोधोऽभूद्रक्षसां विभुना सह । वरुणस्य परं गर्व केवलं विभ्रतो बलं ॥ ३४ ॥ कैकसीसुना दूतः प्रेषितोऽथेत्यभाषत । वरुणं स्वामिनः शक्त्या दधानः परमां द्युतिं ।। ३५ ।। श्रीमान् विद्याधराधीशो वरुण त्वाह रावणः । यथा कुरु प्रणामं मे सज्जीभव रणाय वा ||३६|| प्रकृतिस्थिरचित्तोथ विहस्य वरुणोऽवदत् । दूत को रावणो नाम क्रियते तेन का क्रिया ||३७|| नाहमिंद्रो जगन्निद्यवीर्यवैश्रवणोऽथवा । सहस्ररश्मिसंज्ञो वा मरुत्तो वाथवा यमः ॥ ३८ ॥ देवताधिष्ठितैरत्नैर्दर्पोस्याभवदुत्तमः । आयातु सममेभिस्तं नयाम्यद्य विसंज्ञतां ॥ ३९ ॥ नृनमासन्नमृत्युस्त्वं येनैवं भाषसे स्फुटं । अभिधायेति तं दूतो गत्वा भत्रे न्यवेदयत् ॥ ४० ॥ ततः परमकोपेन परितो वारुणं पुरं । अरुणद्रावणो युक्तः सेनयोदधिकल्पया ॥ ४१ ॥ प्रतिज्ञां च चकारेमां रत्नैरेष मया विना । नेतव्यश्चपलो भंग मृत्युं वेति ससंभ्रमः ॥ ४२ ॥ राजtants काद्याः क्षुधा वरुणनंदनाः । विनिर्ययुः सुसन्नद्धाः श्रुत्वा प्राप्तं वलं द्विषः ॥ ४३ ॥
Jain Education International
iti पर्व ।
----
For Private & Personal Use Only
www.jainelibrary.org