SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६५ षोडश पर्व । चक्रारूढमिवाजस्रं संदधाना कृतभ्रमं । संस्कारविरहाद्रुक्षं भ्रमंती केशसंचयं ॥ १८॥ तेजोमयीव संतापाज्जलात्मेवाश्रुसंततेः । शून्यत्वाद्गनात्मेव पार्थिवीवाक्रियात्मतः ॥ १९ ॥ संततोत्कलिकायोगाद्वायुनेव विनिर्मिता । तिरोवस्थितचैतन्याद्रूपमात्रोपमात्मिका ॥ २० ॥ भूमौ निक्षिप्तसर्वांगा नोपवेष्टुमपि क्षमा । उपविष्टा च नोत्थातुं देहं नोद्वर्तुमुत्थिता ॥ २१ ॥ सखीजनांसविन्यस्तविगलत्पाणिपल्लवा । भ्राम्यति कुहिमांकेपि प्रस्खलच्चरणा मुहुः ॥ २२ ॥ स्पृहयंत्यनुयाताभ्यः प्रियैश्चाटुविधायिभिः । वराकी छेककांताभ्यस्तद्गतास्पंदवीक्षणा ॥ २३ ॥ प्रियात्परिभवं प्राप्ता कारणेन विवर्जिता । निन्ये सा दिवसान् कृच्छ्रादीना संवत्सरोपमान २४ तस्यामेतदवस्थायां समोऽस्या दुःखतोऽथवा । अधिकः परिवारोऽभूत्किकर्तव्याकुलात्मकः ॥२५॥ अचिंतयच्च किंत्वेतत्कारणेन विना भवत् । किं वा जन्मांतरोपात्तं कर्म स्यात्पकमीदृशं ॥ २६ ॥ किंवांतरायकर्म स्याज्जनितं जन्मांतरे । जातं वायुकुमारस्य फलदानपरायणं ॥ २७ ॥ येनायमनया साकं मुग्धया वीतदोषया । न भुक्ते परमान्भोगान् सर्वेद्रियसुखावहान् ॥ २८ ॥ शृणु दुःखं यया पूर्व न प्राप्तं भवने पितुः । सेयं कर्मानुभावेन दुःखभारमिमं श्रिताः ॥ २९ ॥ उपायमन कं कुर्मो वयं भाग्यविवर्जिताः । अस्मत्प्रयतनासाध्यो गोचरो ह्येष कर्मणां ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy